________________
गूढार्थतत्वालोकव्याख्यासहितः । घटत्वादिमितावच्छेदकघटत्वाद्यवच्छिन्नप्रकारकयोग्यताज्ञानबलादेव घटत्वादौ धर्मितावच्छेदकतासबंन्धेन तदापत्तेः । न च योग्यताज्ञानस्य धर्मितावच्छेदकनिष्ठप्रत्यासत्या हेतुत्वोपगमे द्रव्यत्वाद्यवच्छिन्नस्य पदादनुपस्थितत्वेपि द्रव्यत्वादी तादृशप्रत्यासत्या प्रत्यासन्नयोग्यतानानात्तत्र प्रत्यासत्यातादृश शाब्दबोधापत्तिः। आत्मनिष्ठप्रत्यासत्या हेतुभूतां द्रव्यत्याद्यवच्छिन्नोपस्थितिमात. रेणापिताशप्रमेयत्वाद्यवच्छिन्नोपस्थित्यादिदशायां प्रमेयत्वादौ धर्मितावच्छेदकतासंबन्धेन योग्य ताज्ञानस्य फलजनकत्वात्तादृशद्रव्यत्वाद्यवच्छिन्नोपस्थितिविरहस्याकिचित्करस्वादिति वाच्यम् । समानप्रकारताप्रत्यासत्या पदार्थोपस्थितेः शाब्दबोधे हेतुत्वोपगमात् । त्वादन्छिन्न विशेष्यत्वघटिताप्रामाण्य ग्रह स्यैवोत्तेजकत्वं वाच्य मिति न दोषसंभव इति चेन्न स्वविशिष्ठावच्छन्दकत्वसंसर्गेण हेतुत्वे दोषाभावात् । वैशिष्ट्यं च स्वीयघटत्वावच्छिन्नप्रकारवानिरूपितविशेष्यताकत्वखनिष्ठविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताकत्वनिष्टप्रकारतानिरूपितघटाभाववन्निष्टविशेष्यत्वनिष्ठविषयतानिरूपितावच्छिन्नलसम्बन्धावच्छिनावच्छेदकतावलसंबन्धावच्छिन्नप्रतियोगिताकखाभाववत्त्वोभयसंबन्धेन । अवच्छेदकतावत्ताच स्वसामानाधिकरण्यस्वानवच्छेदकानवच्छिन्नत्वस्ववृत्तित्वस्वावच्छेदकसंबन्धावच्छिन्नत्वैतचतुष्टयसंबन्धेन । नचोक्ताकाराप्रामाण्यज्ञानेनावच्छिन्नत्वसंसर्गेण विशेष्यत्वे प्रभेयखादेविशेषणलमनुभूयते नंबाघटाभाववतोविशेष्यत्वविशेषणतापीति वाच्यम् धर्मिपार तन्द्रयेण सप्तम्यभिलग्यमाने विशेष्यत्वे प्रमेयवादेः प्रकारत्वसंभवात् घटाभाववतोयाधेयतया विशेष्यत्वाएवमानाभ्युपगमाच प्रमेये तद्भाने वाधनिश्चयविधया प्रतिवन्धकलादेवापत्त्यसंभवेन तस्योत्तेजकलानावश्य कलात् अवच्छिन्नलप्रकारकज्ञानसङ्ग्रहाय च विशेष्यत्वनिष्ठविषयतानिरूपित स्वरूपातिरिक्तसंबन्धानवच्छिन्ननिरूपितत्वनिष्ठविषयतानिरूपितावच्छेदकतात्वावच्छिन्नविषयताबदवच्छेदकतावत्त्वस्य संसर्गघटकताविवक्षिता नातोऽननुगमइयेषादिक । घटाभाववतिघटप्रकारताकमिदंज्ञानमित्याद्यप्रामाण्यज्ञानानामभावस्तुयोग्यताज्ञानएव विशेषणीयइति।।
योग्यताज्ञानवलादेवेति । उक्तज्ञानस्य कारणतावच्छेदकवत्त्वे तद्धटितसमुदायस्यापिसामग्रीत्वसंभवेन कार्यतावच्छेदकसंबन्धेन धर्मितावच्छेदकत्वेन कार्यतावच्छेदकघटत्वावच्छिन्नप्रकारकशाब्दबुद्धिवावच्छिन्नापादकत्वसंभव इति भावः । ननु योग्यताज्ञानस्यविषयनिष्टप्रत्यासत्त्यालाघवेन हेतुत्वेप्युपस्थितेः समवायेनै बहेतुत्वं युक्तं नच तत्तद्धर्मावच्छिन्नविषयकशाब्दबोधे तत्तद्धर्मावच्छिन्नविषयकोपस्थितित्वेन कारणत्वस्य वाच्यतया समवायेनहेतुत्वे अनन्तकारणखापत्त्या गौरवमितिवाच्यम् स्वत्वस्याननुगतत्वेन सर्वत्र परम्परायाः संसर्गत्वे मानाभावेन च स्वजनकज्ञानीयेत्यादिवक्ष्यमाणप्रकारेण विषयनिष्ठप्रत्यासत्या हेतुत्वस्यासंभवात् विशिष्टशक्तिज्ञानकारणत्वानुरोधेन वृत्तिशरीरेविषयप्रवेशस्यावश्यकत्वेन विषयनिष्ठप्रत्यासत्त्याहेतुत्वे तत्तत्पुरुषीयत्वप्रवेशेन विपरीतगौरवान्चेत्याशयवानाहू-आत्मनिष्ठप्रत्यासत्त्याहेतुभूतामिति । उपस्थितिमन्त रेणेति । ननु कारणतावच्छेदकेन समयायेन कार्याधिकरणे द्रव्यखादाक्प्रत्यासन्नत्वादेवोपस्थितेः सहकारित्यासंभवे व्यभिचारेण तत्प्रदर्शनमफलम् । किंचोपस्थितेयंतिरेको न कालगतो नवा संबन्धमात्रावच्छिन्न प्रतियोगिताको नचाप्यात्मनिष्टः प्रकृतेर्विवक्षितः तत्पुरुषस्य द्रव्यत्वावच्छिन्नोपस्थितिविरहकालेपि पुरुषान्तरस्य तत्सद्भावात् पुरुषान्तरीयोपस्थितेविषयतया द्रव्यत्वे सत्त्वात् आत्मनः कार्यदेशत्यविरहाचेति कारणतावच्छेदकसंवन्धावच्छिन्नप्रतियोगिताकः कार्याधिकरणनिष्टः सहकारिताविरहप्रयोजकतया विवक्षणीयः सच द्रव्यत्वावच्छिन्नोपस्थितेरिय घटलावच्छिन्नोपस्थितेरप्यभावो द्रव्यत्वे विद्यमानस्तस्याइब तस्या अप्यसहकारिता व्यवस्थापयतीति तद्विरहकालेऽप्यापत्तिः संभवतीति तदुपेक्षणं च निर्वाजमितिचेत्र तत्तद्धर्मावच्छिकार्यस्य तत्तद्धर्मावच्छिन्नकार्यतावच्छेदकसंबन्धेनोत्पत्तिस्तत्तद्धर्मव्यापकाशेषधांवच्छिन्नकारणानां स्वखकार्यतावच्छेदकसंबन्धेन कार्याधिकरणे कारणतावच्छेदकसम्बन्धेन प्रत्यासन्नानां पूर्वकालसत्वमपेक्षत इत्यभिप्रायात् । नच किमर्थमेतदङ्गीकार्यमिति वाच्यं ज्ञानत्वावच्छिन्नप्रति त्वङ्मनोयोगस्य हि लाघवेनात्मनिष्टप्रत्यासत्त्यैव हेतुत्वेन विषये तदभावसत्वेन तस्यासहकारितया तदभावदशायामापत्तिरितरथा दुरुद्धरैब स्यात् एवंच सहकारिता विरहप्रयोजको न कार्याधिकरणे तदभावः किंतुकारणतावच्छेदकसंबन्धेन खाधिकरणावच्छेद्यः पूर्वकालवर्तितदभावएवेत्युपस्थितिमन्तरेणेत्या दिग्रन्थसङ्गतिः । घटत्वावच्छिन्नोपस्थितिमन्तरेण घटलावच्छिन्नप्रकारकशाब्दबुद्धित्वावच्छिन्नस्य न वाप्युत्पत्तिसंभवः घटत्वावच्छिन्नविषयकशाब्दबुद्धित्वस्य तद्यापकत्वेन तदवच्छिन्नकारणीभूताया आत्मनि प्रत्यासन्नायाः तदुपस्थितेः पूर्वकालरात्वस्यापेक्षणीयत्वात् । नच यो ग्यताज्ञानकार्यतावच्छेदकस्य तत्पुरुषीयत्वघटितत्वेन तदवच्छिन्नस्य तत्पुरुषस्य घटलावच्छिन्नोपस्थितिविरहे पुरुषान्तरस्य तदुपस्थितिदशायां चापत्तिरेवमपि दुर्वारेति वाच्यम् खखकार्यतावच्छेदकसम्बन्धेन तत्तद्धर्मावच्छिन्न कार्याधिकरणे प्रत्यासन्नानामित्यस्य विवक्षणीयत्वात् तत्पुरुषीयघटखावच्छिन्न प्रकारकशाब्दबुद्धिवावच्छिन्नस्य समवायेनाधिकरणे तत्पुरुषे तदानीमुक्तोपस्थितेरप्रत्यासन्नत्वात् । नचैवं व्यत्वावच्छिन्नोपस्थितेः किमिति पूर्वकालसत्त्वं नापेक्ष्यत इसि वाच्यम् द्रव्यत्वावच्छिन्नविषयकशाब्दत्वस्योक्तोपस्थितिजन्यतावच्छेदकस्य घटत्वावच्छिन्न प्रकारकशाब्दबुद्धिवाव्यापकत्वादिति ।
उपस्थिते शाब्दबोधे हेतुत्वोपगमादिति । अथ घटो द्रव्यमित्याकाराकासाशानमन्तरेणापि योग्यताज्ञानात्प्रमेयत्वे शा