Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
व्युत्पत्तिवादः। तदर्थकपदोत्तरविभक्त्या संख्याबोधनेऽभेदसंसर्गावच्छिन्नप्रकारताभिन्नतदर्थविषयताशालिशाब्दबोधसामग्री अपेक्षिता । तादृशश्च बोधस्तदर्थविशेष्यकस्तदर्थनिरूपितभेदान्वयविषयकश्च नीलो घटा. वित्यादीच विशेष्यवाचकपदोत्तरविभक्त्यैव द्वित्वादिकं प्रत्याय्यते। एवं च क्रियाविशेषणवाचकपदो. तरविभत्या अबाधितयोरपि द्वित्वबहुत्वयोः प्रत्यायनासंभवात्तादृशपदोत्तरमौत्सर्गिकमेकवचनमेव
सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वादिति अन्थेभिहितं प्रत्ययस्य सार्थकत्वं द्वितीयान्तसमभिव्याहारघटिताकाला न जन्यशाब्दबोधेनखरूपसदुपयुक्तं ल्युटो निरर्थकल्वग्रहे शोभनपदस्य द्वितीयांतत्वग्रहेऽपि शाब्दप्रसंगात् अर्थरहितस्य तिन्घनादेः सार्थकत्वग्रहेऽपि शोभनाधन्वितपाकाद्यन्वयबोधस्य समभिव्याहारं विनाप्यापत्तेश्च किंतु ज्ञायमानं तथा च शोभनाभिनपाकाद्यन्वयबोधे द्वितीयान्तशोभनादिपदसमभिव्याहारज्ञानं प्रथमाद्यन्तशोभनादिपदसमभिव्याहारज्ञानं च कारणम् । तत्राद्येन धातुजन्यपाकाद्युपस्थितिः धातूत्तरप्रत्यये किंचिदर्थपरत्वरूपसार्थकत्व विशेषिते विभक्त्यव्यवहितपूर्ववर्तित्वविषयकत्वंच सहकारितयापेक्ष्यते, द्वितीयेन तु धातुजन्यपाकाद्युपस्थितिः निरर्थकत्वविशेषिते धातूत्तरप्रत्यये प्रथमाद्यव्यवहितपूर्ववर्तित्वविषयकत्वं चेति, शोभनं पचनमित्यादौ ल्युडादेरधिकरणपरत्वग्रहे शोभनपदस्य च प्रथमान्तत्वग्रहे च नापत्तिसंभवः निरुक्ताकाहाज्ञानस्यैवाभाचात् किमर्थ प्रतिबन्धकत्वकल्पनं, नच प्रथमात्वादिघटितरूपस्याकाहत्वे प्रथमात्वाद्यज्ञाने शान्दयोधानुपपत्तिरिति तत्तद्विभक्त्यानुपूर्वीघटितस्यैवाकाङ्घात्वमुपेयमिति शोभनं पचनमित्याद्यानुपूर्वाज्ञानमात्रकालेऽधिकरणपरत्वग्रहेसत्यापत्तौ ता. त्पर्यमितिवाच्यं प्रथमाद्वितीययोः शोभनमित्यत्रैकरूपतया ल्युडादेरधिकरणपरत्वग्रहे धातुतः पाकोपस्थितौ द्वितीयान्तसम. भिव्याहारज्ञानात्समुदायशक्तिवादेऽपि शाब्दबोधस्यष्टतया प्रथमात्वाद्यग्रहदशायामापत्तित्वस्यैव दुरवधारणीयत्वात् । द्वितीयात्वादिज्ञानस्यानुपयुक्त्वे उक्तस्थलानुरोधेनोक्ताकालाज्ञानस्य धातुजन्यपाकोपस्थितेश्च कारणत्वस्य कल्पनीयतया प्रथमान्तत्वग्रहकाले निरुक्तशाब्दबोधस्य समुदायशक्तिमतेऽपि दुरुद्धरत्वाच्च । नच प्रतिवन्धकत्वकल्पनयापि तद्वारणं संभवति, एवं सति प्रतिबन्धकत्वस्यैव दुर्वचत्वात् । तथाहि यदि पाकविशेष्यकस्तोकाभेदबुद्धित्वं प्रतिवध्यतावच्छेदकं प्रथमान्तत्वग्रहत्वञ्च प्रतिबन्धकतावच्छेदकं तदाल्युटो निरर्थकत्वग्रहकाले शाब्दबोधानुपपत्तिः । नच निरर्थकत्वग्रहविरहसहकृतस्य प्रतिवन्धकतावच्छेदकत्वं समुदायशक्त्या पाकाद्युपस्थिती निरर्थकत्वग्रह विरहे प्रथमान्तत्वग्रहे च शाब्दबोधानुपपत्तेः । अथ याच्येत धातुप्रयो. ज्योपस्थितीयविषयताप्रयोज्यपाकविशेष्यताकवोधे प्रथमान्तत्वग्रहस्य प्रतिबन्धकत्वं तदासमुदायशक्त्युपस्थित पाकविशेष्यकशाब्दबोधे पाकपदधर्मिकप्रथमान्तत्वग्रहसह्कृतद्वितीयान्तत्वग्रहस्यापि प्रतिबन्धकखान्तरं वक्तव्यम् प्रागुक्तं चाधिकरणारत्वग्रहस्य प्रतिबन्धकत्वमिति समुदायशक्तिवादे बहुतरप्रतिबन्धत्वमापतेत् । यद्यनुभवापसवः क्रियेत नैकत्रापि पक्षे तदा प्रतिबन्धकत्वकल्पनं तद्वरमेतावत्प्रतिबन्धकखकल्पनापेक्षया निरुक्तसमभिव्याहारज्ञानस्थले सर्वत्र यथायथं खमापस्थितिकल्पनं सुत्वामवादिनैव व निरुक्ताकाहाशरीरे प्रथमाद्वितीयादेः प्रवेशो नतु प्रथमात्वादिना तथासति प्रथमारवायग्रहेपिन क्षतिरिति चेदेतादशास्वरससूचनायैव वदन्तीत्युक्तमिति गृहाणेति दिक् ।
तदर्थकपदोत्तरविभक्त्यति । ननु नीलो घट इत्यत्रापि नीलघटबोधकनीलपदोत्तरविभक्त्या कथं न संख्यान्वयबोधः अभेदसंबन्धावच्छिन्नप्रकारत्वान्यनीलनिष्ठघटत्वावच्छिन्नविशेष्यताकशाब्दसामन्यास्तत्रसत्वात् । एवं नीलो घट इतिवाक्यग्रहे नीलस्येदमिति वाक्यग्रहपटितसामग्रीसत्वे च नीलपदोत्तरसुविभक्त्या संख्यान्वयप्रसङ्गः नीलार्थनिठाऽभेदसंबन्धावच्छिन्नप्रकारत्वान्यशाब्दसामय्या विद्यमानत्वात् । किंच नीलत्ववोधनीलपदोत्तरसुविभक्त्या नीले संख्याबोधप्रसंगः अभेदसंवन्धावच्छिन्नप्रकारत्वान्यनीलत्वनिष्ठविषयताकशाब्दसामम्या विद्यमानत्वात् । तद्धर्मावच्छित्रबोधकपदोत्तरविभक्त्या संख्याबोधनेऽभेदसंबन्धावच्छिन्नप्रकारत्वान्यतद्धर्मावच्छिन्नविषयताकसामथ्या अपेक्षणीयत्वविवक्षाया वेदाः प्रमाणमित्यत्र प्रमाणत्वावच्छिन्नविषयतायास्तादात्म्यसंबन्धावच्छिन्नत्वात्प्रमाणत्वे संख्यान्वयानुपपत्तः कर्तुमशक्यत्वात् । यत्र संख्यान्वयोऽभिमतस्तस्यैव तद्धर्मपदेन ग्राह्यत्वात् । संख्यान्वयितावच्छेदकाहणे ब्रीहित्वे संख्यान्वयस्थले नियमानुपपत्तेः संख्यान्वयिनः संख्यान्वयितावच्छेदकस्यैव वा ग्रह्णमित्यत्र नियामकालाभाचेति चेन्न, तत्पदोत्तरविभक्तिप्रयोज्यसंख्यानिष्टप्रकारतानिरूपिततत्तदर्थनिष्ठविशेष्यताकबोधेऽभेदसंबन्धावच्छिन्न प्रकारत्वान्यतदर्थनिष्टतत्पदप्रयोज्यविषयताकशाब्दसामग्यपेक्षितेत्यस्य विवक्षितत्वात् । घटनिष्ठविषयताया नीलनिष्ठत्वेऽपि नीलपदाप्रयोज्यत्वात् षष्ठ्यन्तनीलपदप्रयोज्यनीलनिष्टविषयतायास्तादात्म्यसंबन्धानवच्छिन्नत्वेऽपि स्वप्रकृतिनीलपदाप्रयोज्यत्वात् नीलस्य तत्पदार्थतया विवक्षणे तनिष्टनीलपदप्रयोज्यविषयतायास्तादात्म्यसंबन्धानवच्छिन्नत्वात् प्रमाणत्वबीहित्वा दिवन्नीलत्वेतु सति तात्पर्ये संख्यान्वयस्येष्टत्वात् । नच प्रमाणएव खाश्रयप्रमाणत्वक्त्त्वसंबन्धेनैकत्वान्ययपक्षे का गतिरितिवाच्यं संख्यानिष्ठप्रकारतायां पर्याप्तिसंबन्धावच्छिन्नत्वस्य विवक्षितत्वादिति ।
एवंचेति । संख्याबोधे निरुक्तसामग्यपेक्षणेचेत्यर्थः । असंभवादिति । संख्याप्रत्ययप्रयोजकनिरुक्तसामग्यभावेन संख्याप्रत्ययोत्पत्त्यसंभवादित्यर्थः । तथाचेतिशेषः । संख्याप्रत्ययाभावे संख्याप्रतिपत्त्यर्थतया प्रयोगासंभवात् यस्य कस्यचिद्वचनस्य प्रयोगेप्राप्ते प्राथमिकत्वादेकवचनमेव प्रयोक्ताव्यमिति भावः । औत्सर्गिकमेकवचनमेवेति । तस्यौत्सर्गिक

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218