Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 48
________________ ४४ व्युत्पत्तिवादः । कर्मत्वे विशेषणतयान्वय इति चेत्तथापि पाकादिविशेषणतया सुबर्थसंख्याया अन्वयसंभवात् । यत्र पाककर्त्तादेर्द्धित्वादिकं बाधितं पाकादेश्व तद्वाधितं तत्र पचन्तौ पश्यति पचमानौ पश्यतीत्यादिप्रयोगप्रसङ्गस्य दुर्वारत्वात् । धातूपस्याप्यार्थे सुबर्थान्यययोधं प्रति तत्तद्धातूत्तरप्रत्ययधर्मिककिंचि दर्थपरत्वज्ञानस्य प्रतिबन्धकतामुपगम्यैताद्दशातिप्रसंगवारणे च गौरवात् । एवं शोभनं पचनमित्यादौ धातुमात्रेण पाकाद्युपस्थितौ च तत्र शोभनाद्यभेदान्वयबोधानुपपत्तिः विशेषणविभक्तिसजातीयविभक्ति प्रकृत्यनुपस्थाप्यत्वात् । प्रकृत्येकदेशसाधारणतादृशविभक्तिप्रकृतित्वस्य प्रयोजकत्वे तत्र ल्युडादेरधिकरणपरत्वेऽपि तथाविधान्वयबोधापत्तेः । कस्यचित्प्रतिबन्धकतां कल्पयित्वा तद्वारणे व गौरवात् । न चैवमुपकुम्भार्द्धपिप्पल्यादिरूपपूर्वपदार्थप्रधानसमासपदात्कुम्भसमीप पिप्पल्यर्द्धादौ विभक्त्यर्थान्वयस्य प्रातिपदिकान्तरार्थाभेदान्वयस्य चानुपपत्तिः । पूर्वपदस्य समासोत्तरविभक्त्यप्रकृतित्वादिति वाच्यम् । तदनुरोधेनैव तत्र कुम्भपिप्पल्यादिपदानामेव कुम्भसमीपपिप्पल्यर्द्धादौ लक्षणायाः पूर्वपदस्य तात्पर्य ग्रहमात्रोपयोगितायाश्च स्वीकारात् । वस्तुतस्तु तत्रोत्तरपदार्थविशेषितपूर्वपदार्थसमीपादौ प्रत्ययार्थान्वयबोधेतादृशसमस्तपदप्रत्ययपदयोरव्यवहितपूर्वापरीभावोप्याकाङ्क्षा । एवं तत्र प्रातिपदिकान्तरार्थाऽभेदान्वयबोधे समानविभक्तिकयोस्तादृशसमस्तपदपदान्तरयोश्च समभिव्याहारोप्याकाङ्क्षा | तथा सत्यतिप्रसङ्गविरहात् । धात्वर्थपाकादौ प्रत्ययार्थान्वयबोधे प्रातिपदिकान्तरार्थाभेदान्वयबोधे च ल्युइघञाद्यन्तसमुदायप्रत्यययोरव्यवहितपूर्वापरीभावस्य समानविभक्तिकयोस्तादृशसमुदायपदपदान्तरयोः समभिव्याहारस्य चाकाङ्क्षात्वोपगमे दर्शिताधिकरणार्थकल्युमत्ययस्थलीयातिप्रसङ्गस्य दुरुद्धरतया न तत्संभवः । अथ घञन्तसमुदायस्य पाकाद्यर्थकत्वे घञन्तस ग्रहस्य । स्वरूपयोग्यत्वग्रहेऽपि च निराकाङ्क्षत्वग्रहविरह एवोपयुज्यते इति नान्योन्याश्रयः । उक्तव्युत्पत्त्यभावे कृदाद्यर्थविशेध्यतयान्वितस्य पाकादेः कर्मत्वादौ कृदाद्यर्थाविवक्षायां वा तत्र तस्यान्वयस्य सकृदुच्चरितइत्यादिनियमेन वारणासंभवेन सार्धक्यश्च । नच प्रकृत्येक देशार्थसाधारणप्रकृत्यर्थत्वाघटितप्रत्ययानामित्यादिनियमसद्भावे स्वाश्रयत्वघटकद्वितीयसंबन्धवैयर्थ्य भविष्यत्येवेत्युक्तव्युत्पत्तेर्वस्तुतोविशिष्टशक्तिमात्रस्थलीयताया एव वक्तव्यतया प्रलयानामित्यादितधाविधनियमासद्भावेऽपि कथन्तया कर्मत्वादौ पाकान्वयवारणमिति शक्यम् राजपुरुषोऽयमितिवाक्यस्य पुरुषपदार्थाविवक्षायां राजात्मकइदमर्थे राजपदार्थान्वयतात्पर्येण राजपदे कर्मधारयलुप्तखन्तत्वप्रतिसंधाने प्रामाण्यापतेस्तथाप्युक्तसंबन्धस्यावश्यमुपादेयत्वात् । नच न सापेक्ष इत्यादिनियमादेवोक्तदोषवारणसंभवादुक्तसंबन्धोनोपादेय इति वाच्यं सापेक्षत्वस्य तदर्थान्वितस्वार्थतात्पर्यकत्वरूपस्य वक्ष्यमाणतया वृत्तिघटक विशेषणपदार्थस्य नृत्यघटक पदार्थविशेष्यत्व एवोक्तव्युत्पत्त्याऽतिप्रवृत्तेः । नच निरुक्तसंबन्धाप्रवेशे लाघवानुरोधेन तदर्थनिरूपितान्वयनिरूप कत्वमेवास्तु तत्सापेक्षत्वघटकमिति वाच्यं प्रधानं प्रधानमपेक्षते प्राधान्यव विशेष्यत्वमेवेति तत्प्रतियोगिकानुयोगित्वस्यैव सापेक्षत्वघटकत्वौचित्यादाजानिक सिद्धायां व्युत्पत्तौ नियोगपर्यनुयोगस्याप्यनईत्वात् । ययुक्तप्रवेशो नस्यात्तदोक्तव्युत्पत्तेर्विशिष्टशक्तिमात्रस्थलीयतयोक्तग्रन्थानुपपत्तिर्दुष्परिहरा । नच पचमानादिपदानां विशिष्टशक्त्यभिप्रायक एवोक्तप्रन्थइति वाच्यं धातूपस्थाप्यर्थे त्यप्रिमग्रन्थविरोधात् । तस्मादुक्तरीतिरादर्त्तव्या । विशिष्टशतिकृदादिवृत्तिस्थलद्वयसाधारणैकप्रकारनिर्वचनप्रयत्नो वा कर्त्तव्यइति दिकू । धातूपस्थाप्यार्थेति । अथैवं प्रतिबन्धकत्वे कल्पितेऽपि यन्त्र राजद्वयसंबन्ध्येकः पुरुषोऽस्ति तत्र राजपुरुषौ पश्येति प्रयोगापत्तिर्दुर्वारेति चेन्न तत्तत्पदार्थधार्मिकमुवर्थान्वयबुद्धौ तत्तत्पदा व्यवहितोत्तरवर्तिसुभिन्नपदधार्मिककिश्चिदर्थं परत्वज्ञानस्य तत्तत्पदाव्यवहितोत्तरपदधर्मिक तत्तत्पदार्थान्वितार्थपरत्वज्ञानस्य वा प्रतिबन्धकत्वे तात्पर्यात् द्वितीयकल्पानुसरणाश्च । द्वन्द्वस्थले सर्वपदार्थे विभक्तत्यर्थान्वय निर्वाहः । नचैत्रमर्द्धकायादिपूर्व पदार्थप्रधानसमासस्थले बहुपदादितद्धितस्थले च विभक्त्यर्थान्वयानुपपत्तिरिति वाच्यं पूर्वपदतात्पर्यग्राहकत्वपक्षे दोषस्यैवाभावात् । वस्तुतस्त्वित्यादिकल्पान्तरे चोक्तसमासादिस्थलउत्तरपदार्थे विभक्त्याद्यर्थान्वय वारणानुरोधेन पूर्वपदार्थधर्मिकार्थपरत्वज्ञानस्य प्रतिबन्धकत्वस्य निरुक्तप्रतिबन्धकतायां पदे निरुक्तसमासादिघटकभिन्नत्वस्यच निवेशनीयत्वात् । तदर्थान्वितत्वस्य तदर्थान्वयानुयोगित्वस्य वा विवक्षितत्वात् । कस्यचित्प्रतिबन्धकतां कल्पयित्वेति । द्वितीयान्यसुबन्तार्थाभेदान्वयबुद्धौ धातूत्तरवर्तिप्रत्ययधर्मिक किञ्चिदर्थं परत्वज्ञानस्य प्रतिबन्धकतां कल्पयित्वेत्यर्थः । स्वार्थकप्रत्ययान्तधातूपस्थाप्यार्थे द्वितीयान्तार्थाभेदमानस्य तैरपि खीकाराद्वितीयान्येति । नचैवमिति । घञायन्तसमुदायस्य शक्तिस्वीकारेऽपीत्यर्थः । प्रकृत्यर्थान्वितखार्थबोधकत्व व्युत्पत्तेराकाङ्क्षाविशेषकार्यकारणभावग्राहकतया पूर्वपदार्थप्रधानसमासस्थलेऽन्याश्या आकाङ्क्षाया एवं कल्पनेन नोक्तव्युत्पत्तिविरोध इत्याह वस्तुत

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218