Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थसत्वालोकव्याख्यासहितः ।
४५ मुदायस्य संयोगविभागत्वादिविशिष्टावाचकत्वं व्युत्पाद्य संयोगविभागादिपदानां नैमित्तिकसंशात्वनिराकरणं दीधितिकृतां विरुद्धमिति चेत्का क्षतिः । न हि कस्यचिद्ग्रन्थकृतो विपरीतलेखनं युक्तिवलावस्तुसिद्धौ बाधकम् । एवं च यत्र धातुमात्रस्यैव पाकादी तात्पर्य तत्र तद्विशेषणवाचकपदाद् द्वितीयैव यत्र तु कृदन्तसमुदायस्य पाकादौ तात्पर्य तत्र तादृशपदं तथाविधकृदन्तसमुदायसमानविभक्तिकमेव । तदुक्तं कातन्त्रपरिशिष्टकृता कथं स्तोकः पाक: कृदन्तविशेषणत्वात् । धात्वर्थेकाधिकरण्ये तु स्तोकमोदनस्य पाक इति स्य
स्त्विति । नैमित्तिकसंक्षेति । जात्यवच्छिन्नसंकेतवतीसंत्यर्थः । यत्र धातुमात्रस्यैव पाकादौ तात्पर्यमिति । अथधातोः पाकादौ तात्पर्येघञन्तसमुदायेन पाकोपस्थितावुभयोरनन्वयप्रसंगात् समुदायशक्त्युपस्थापितपाकादेरविवक्षणीयतया विभक्त्यर्थसंख्याकर्मत्वादेः कुत्रान्वय इति चेन, विभक्त्यर्थसंख्याकर्मत्वादेर्यत्र विवक्षितवं नहि तत्र धातुमात्रस्य पाकादौ तात्पर्यम् अपितु धात्वर्थपाकदी स्तोकादेरेवान्वयो यत्र विवक्षितस्तत्रैव । अतएव स्तोकमोदनस्य पाकाय यतते पाकेनभूयतइत्यादयो न प्रयोगाः तादर्थ्यकर्तृत्वाद्यविवक्षायामौत्सर्गिकतया प्रथमाया एव प्राप्तेः । अतएव स्तोकमोदनस्य पाक इत्येवोदाहृतं प्रन्थकृता । धात्वैकाधिकरण्येविति । स्तोकपदस्पेति शेषः । धातुप्रतिपाद्यप्रतिपादकस्वेतु स्तोकपदस्येत्यर्थः ।
इतिवदन्तीति । ननु धातुमात्रशक्तेः कुप्ततया ततएव विवक्षितत्वान्वयबोधोपपत्तौ कृदन्तसमुदायशक्तिकल्पनं पौरवावहम् । नच स्तोकः पाकइत्यदौ विशेष्यवाचकधातुपदस्याप्रथमाप्रकृतित्वादेवमन्वयो न स्यात्तदर्थे प्रथमान्तस्तोकपदार्थस्य प्रकृत्येकदेशसाधारणविभक्तिप्रकृतित्वश्च पचमानाचित्यादौ पाकादौ द्वित्वान्वयप्रसंगेन हि वकुमशक्यमित्युक्तमेव समुदायशक्तिकल्पनाबीजमिति प्रामाणिक गौरवं न दोषायेति वाच्यं वस्तुतस्त्वित्याद्यनुपदोक्तप्रन्थोक्तरीत्यवलम्बनेन पाकादौ स्तोकायभेदान्वयवोधे खन्तस्तोकपदसमभिव्याहृतखन्तपाकपदत्वस्याकालारवस्य पाकादौ द्वित्वान्वयबोधे पचमानावित्याद्यानुपूर्त्या आकाहात्वाभावस्य च कल्पनेनैव निर्वाहे गौरवस्याप्रामाणिकत्वात् । नच वस्तुतस्त्वित्यादिसंदर्भ धात्वर्थपाकादौ प्रत्ययार्थान्चयबोधइत्यादिनोक्तएवात्र दोष इति वाच्यम् तत्तद्धातूत्तरतत्तत्प्रत्ययधर्मिक किश्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वकल्पनेन तद्दोषवारणसंभवात् । अथ प्रतिबन्धकताकल्पनागौरवं समुदायशक्त्यखीकारे दोषः, नव समुदायशक्तिवादे कथं निर्वाहः, शोभनं पचनमित्यादिसमभिव्याहारस्याकाङ्क्षात्वस्य ल्युडादेरधिकरणपरत्वामहे शोभमाभिन्नपाकाद्यन्वप्रबोधानुरोधेन वाच्यतया तादृशाकाहाज्ञानादधिकरणपरत्वग्रहे निरुक्तशाब्दबोधापत्तिवारणस्य विना प्रतिबध्यप्रतिबन्धकभावमिति वाच्यम् उक्तान्वयबोधे जननीये निरुक्ताकाहाज्ञानस्य समुदायशक्तिज्ञानजन्यपाकाद्युपस्थितेरेव सहकारित्वकपनात् । ल्युडादेरधिकरणपरत्वप्रहकाले धातुशक्तिग्रहजन्यपाकोपस्थितेरेव विद्यमानत्वादुक्तदोषाभावादिति चेन यत्र यत्र समुदायशक्त्यभावपक्षे प्रतिबन्धकत्वकल्पनं तत्र तत्र समुदायशक्तिपक्षे तादृशशक्तिज्ञानजन्योपस्थितेरतिरिक्तकारणताकल्पनमिति साम्यात् धातुशक्तिज्ञानजन्यपाकादिशाब्दबुद्धी तादृशशक्तिज्ञानजन्योपस्थितेः कुप्तकारणभावाया एवं व्यापक सामग्रीविधयाप्रवेश्यत्वाच्छक्त्यभावपक्षे शक्तिपक्षे च तत्प्रवेशस्योक्तदोषभयेन कर्तुमशक्यत्वादुककारणत्वस्याप्याख्यातादिस्थलानुरोथेन वाच्यत्वात् । एवं भावमात्रशक्तक्तिन्धञाद्यन्तगत्यादिपदघटितायाः शोभनागतिरित्यादिस्थलीयाकालायाः शोभनाभिन्नगमनादिशाब्दबुद्धौ कारणत्वे नास्ति कस्याश्चित्प्रतिबन्धकतायाः कल्पन मिति क्तिन्नन्ताशेषधातुघटितसमुदायस्य बहुतरशक्तिकल्पनेन तज्ज्ञानजन्योपस्थितिकारणत्वकल्पनेन चातिगौरवम् । नच क्तिन्प्रत्ययस्याधिकरणाद्यर्थकत्वाभावेऽपि दोषादितस्तत्तदर्थपरत्वग्रहे शाब्दबोधवारणाय तत्रापि प्रतिबन्धकत्वमावश्यकमिति वाच्यम् अनुशासनाहिताधिकरणत्वाद्यर्थकत्वग्रहजन्यतत्तदर्थपरत्वग्रहस्यैवप्रतिबन्धकलस्याभ्युपेयत्वात्, क्तिन्प्रत्ययस्थले ताशप्रहस्यैवासंभवात् अन्यथैतद्विवारोपन्यस्तधान्तस्थलोपेक्षणस्य दर्शिताधिकरणार्थकल्युट्प्रत्ययेत्यत्राधिकरणार्थकत्वोक्तेश्च निजित्वापत्तेः । यधुक्तस्थले सामान्यतस्तत्तदर्थपरत्वग्रहस्य प्रतिबन्धकत्वमानुभविकं तदा शोभनं पचनमित्यादी तादृशसमभिव्याहारप्रहे समुदायशक्तिजन्यपाकोपस्थितौ ल्युटोऽधिकरणपरत्वग्रहे च शोभनाभित्रपाकादिमुख्य विशेष्यकशाब्दबुद्धेरिणाय समुदायशतिपक्षेऽपि प्रतिबन्धकत्वमशीकरणीयम् । नच शाब्दमतेस्तनेष्टत्वान्नप्रतिबन्धकत्वकल्पनमितिवाच्यम् समुदायशक्त्युपस्थापितार्थस्य शाब्दबोधे भानाभ्युपगमेऽधिकरणपरत्वग्रहोपरोधप्रसंगात् समुदायार्थस्याप्रकृत्यर्थत्वेन तेन समं प्रत्ययार्थाधिकरणस्यान्वयासंभवाच्छोभनाभिन्नधातूपस्थाप्यपाकान्विताधिकरणशाब्दबोधोपगमेऽपि वाक्यमिदं शोभनाभिनपाकपरमिति तात्पर्य ग्रहान्तरस्य समुदायशक्त्युपस्थापितार्थशाब्दबोधार्थमपेक्षमाणस्यानुपरोधाश्चेष्टापत्तेरयोगात् । अतएव समुदायशक्तिपक्षे उपस्थितिकारणत्वकल्पनयाऽतत्पक्षीयप्रतिबन्धकत्वकल्पनस्य समानत्वेऽपि भिन्नविषयकप्रत्यक्षादिकं प्रति शाब्दसामन्याः, प्रतिबन्धकरवे प्रतिबन्धकाभावरूपकारणस्याधिकस्य प्रवेशेन विशेष्यविशेषणभावे विनिगमनाविरहेण साममीत्वेन प्रतिबन्धकताया अत्याधिक्यप्रसंगइत्यपि निरस्तम् प्रतिबन्धकत्वस्योभयत्रसमानत्वातू । वस्तुतस्तु क्रियापदस्य

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218