Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
व्युत्पत्तिवादः ।
कश्चिदभ्युपैतीति चेत् । सत्यम् । अभेदस्तादात्म्यम् । तच्च स्खवृत्त्यसाधारणो धर्मः । असाधारण्यं च एकमात्रवृत्तित्वम् । तच्च स्वसामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसंबन्धेन भेदविशिष्टं यत्तदन्यत्वमित्येकमात्रवृत्तिधर्म एव विशेषणविभक्तरर्थः । वृत्तिश्च तत्र प्रकृत्यर्थस्य संसर्गमर्यादया भासते। तादृशधर्मस्तत्तव्यक्तित्वादिरूप एव । अपूर्वव्यक्तिनिष्ठतादृशधर्मस्य विशिष्यशातुमशक्यत्वेप्येक मात्रवृतिधर्मत्यादिना सामान्यप्रत्यासत्तितः सुग्रहत्वमेव । अभेदस्य संसर्गतामतेऽप्येतादृशानुगता. भेदस्यैव तथात्वमुचितम् । तत्तव्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशिष्य तथात्वे घटो न नील
तश्च स्वसामानाधिकरण्येत्यादि । उभयत्र वृत्तित्वं खरूपेण बोध्यम् । न चैवं द्रव्यत्वादीनामप्यसाधारण्यप्रसङ्ग इति वाच्यम् खरूपसंबन्धावच्छिन्नाधेयत्वस्यैव प्रकृत्यर्थसंवन्धत्वस्वीकारेण खरूपेण द्रव्यत्वस्यासाधारण्येपि शाब्दबोधविषयत्वस्यासंभवात् , स्वरूपेण वृत्तिमानसाधारणो धर्म एव वा विभक्त्यर्थो वाच्यः तथापि द्रव्यत्वादिवारणसंभवात् , खनिरूपितप्रति. योगितावनिरूपितवृत्तितानवच्छेदकानुयोगिताविशिष्टन्यखमेव च प्रकृते विवक्षणीयम् तेन घटभेदाभावनिष्ठतद्वयक्तिलस्य घटभेदात्मकघटभेदाभावाभावनिरूपितप्रतियोगितावद्वृत्तित्वेऽपि नासाधारण्यहानिः तत्तद्भेदनिरूपितप्रतियोगिलवत्तत्तदनिष्ठानुयोगिलमप्यखण्डोपाधिरूपं भिन्नमेव तस्यैव परिग्रहणं न घटभेदाभावाभाववरूपानुयोगिलादेर्भवत्वित्येतदर्थ स्वनिरूपितेत्या. धनुयोगिताविशेषणतयोपात्तम् । वैशिष्टयं च खावच्छिन्नवद्वृत्तिलखावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावत्प्रतियोगितासामानाधिकरण्योभयसंबन्धेन बोध्यम् । नच स्वनिरूपितप्रतियोगितासामानाधिकरण्यमेव कुतो नोक्तमिति वाच्यम् घटभेदलाभावनि. ठतद्यक्तित्वेऽसाधारण्यानुपपत्तेः घटभेदलरूपानुयोगिलात्मकघटभेदलाभावाभावनिरूपितप्रतियोगिलस्य पटभेदलाभावे सवादुक्तरूपेण प्रवेशे च घटभेदत्वेन घटभेदत्वाभावनिष्टप्रतियोगित्वेन निरूप्यनिरूपकभावविरहेण दोषासंभवात् । यता स्वनिरूपितत्वखनिष्ठानुयोगित्वानिरूपितोभयसंबन्धेन स्वविशिष्टप्रतियोगितासामानाधिकरण्यं संसर्गः तथापि नोक्तदोषः भेदत्वस्य तादात्म्यसंवन्धावच्छिन्नप्रतियोगिताकाभावत्वरूपत्वेऽपि नान्योन्याश्रयः तद्यक्तित्वमप्यखण्डोपाधिरेव नातो वृत्तितावच्छेदकसंबन्धविकल्पप्रयुक्तदोषस्यावकाशः । यत्तु नीलादिनिष्टतद्व्यक्तित्वं तत्तन्नीलादिवृत्तित्वविशिष्टनीलत्वादिकमेव नच तस्य स्वरूपेण वृत्तित्वनापि च बिशिष्टस्यानतिरिक्ततया पटपरस्य नीलोघट इति वाक्यस्य प्रामाण्यवारणमतो भेदत्वविशिष्टान्यरूपावच्छिन्नवत्वमेवासाधारण्यं वाच्यम् । वैशिष्ट्यं च स्वावच्छिन्नवद्वृत्तितावच्छेदकतावावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वस्वविशिष्टप्रतियोगितावन्निरूपितवृत्तितावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वोभयसंबन्थेन । - त्तिता च स्वरूपसमवायान्यतरसंबन्धेन ग्राह्या । तथा च नीलत्वत्वगतैकत्वस्य भेदत्वविशिष्टान्यत्वविरहेण तद्विशिष्टनीलत्वत्वेन नासाधारण्यमपितु तशक्तिवृत्तित्ववैशिष्ट्यनीलत्वत्वगतद्वित्वस्य भेदत्वविशिष्टान्यतया तदवच्छिन्नतादृशवृत्तित्ववैशिष्ट्यनीलत्वत्वोभयरूपेणैव तेन च रूपेण तत्सत्वं न तद्व्यक्तिभिन्न इति न कोपि दोष इति तन मनोरमम् । तस्यक्तित्वं च तादात्म्येन सैव व्यक्तिरिति पक्षे गगनपरमाण्वादिरूपतव्यक्तित्वस्य समवायस्वरूपान्यतरेणावृत्तितया तस्य शाब्दबोधविषयत्वानुप. पत्तेः अवयवद्वयवृत्तिघटाद्यात्मकतव्यक्तित्वस्य समवायेनोभयवृत्तितया तस्य शाब्दबुद्धावभानापत्तेः घटाभावाद्यात्मकतयक्तित्वस्यापि स्वरूपेणोभयवृत्तितया तस्यापि शाब्दबुद्धावभानापत्तेश्च तादात्म्यसंबन्धावच्छिन्नत्वं ह्यन्योन्याश्रयभयेनाप्रवेश्यं तत्तनीलादिवृत्तित्वविशिष्टनीलत्वादीनां तद्व्यक्तित्वरूपतापक्षे नीलत्वादीनां संग्राहकत्वाच तस्मादखण्डोपाधिरूपतामेव तद्व्यक्तित्वस्यावलम्ब्य पूर्वोत्तरीतिरेवादतव्या ! तळ्यक्तित्वस्य विशिष्टनीलत्वादिरूपत्वपक्षेऽपि भेदत्वादिकमखण्डोपाधिरूपमेवावलम्ब्यासाधारण्यस्य निर्वाच्यतया तद्व्यक्तिलस्य कुप्तपदान्तर्भावाग्रहस्य दुराग्रहत्वाच्च सामान्यतोऽसाधारण्यपरिष्कारश्चास्मत्कृतसिद्धान्तलक्षणटिप्पण्यामालोचनीयः । अधाधेयखविशिष्टधर्मस्यैव लघुभूतस्य विभक्त्यर्थवं वक्तुमुचितम् आधेयत्वांशे प्रकृत्यर्थान्वये पटादिनिरूपितवृत्तित्वविशिष्टधर्माधिकरणललाभात्तस्य घटे विरहेण पटादिपरस्य नीलोघट इति वाक्यस्य प्रामाण्यवारणसंभवादिति चेन्न एकदेशान्वयभयेनाधेयत्वे धर्मे च खण्डशक्तेः खीकरणीयतया विशेष्ये विशेषणमितिरीत्या प्रमाशाब्दबुद्धः निरुक्तस्थले दुरुद्धरत्वप्रसङ्गादिति ।
अथैकमात्रवृत्तिखस्य खसामानाधिकरण्यखावच्छिन्नभेदसामानाधिकरण्योभयसंबन्धेनैकलविशिष्टान्यत्वं यथावतार्थपरिष्काररूपं भवतीति तत्कथ परित्यक्तम् । अनुयोगितापर्यन्तनिवेशस्यानावश्यकतया भेदविशिष्टान्यत्वनिवेशापेक्षया लाघवमप्यस्ति तत्रेति चेन्न संख्यारूपस्यैकत्वस्य गुणादावभावेन तद्गततळ्यक्तिलस्येव तद्गतजातेरप्यसाधारण्यप्रसादपेक्षाबुद्धि विशेषविषयखस्य चानुगमकाभावात्तस्य परित्याज्यलात् । नचानुयोगिलपर्यन्तानिवेशात्तत्र लापयमपि समनियताभावानामैक्यपक्षे घटभेदस्य घटभेदाभावनिष्ठकत्ववदभावस्यैकतया घटभेदाभावनिष्टतद्यक्तित्वासंग्रहभयेन वावच्छिन्नप्रतियोगिताविशिष्टभेदखन्याप्यानुयोगित्वावच्छिन्नसामानाधिकरण्यस्यैव वाच्यलाल्लाघवाभावात् । नच धर्मविशिष्टान्यलादिकमेवास्तुततू, धर्मत्वेन तदनुगमने

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218