Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 41
________________ गूढार्थतत्वालोकव्याख्यासहितः । इत्यादिवाक्यजन्यबोधे प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमाविति न्यायेन तादृशाननुगतसंबन्धावच्छिन्नप्रतियोगिताकाननुगताभाषा एव भासेरन् नतु नीलवृत्तिरेकोऽभावः तथा सतियत्किचित्तादशाभावतात्पर्येण प्रयुक्तस्य नीलेऽपि न नील इत्यादिवाक्यस्य प्रामाण्यं स्यात् । इदंतु बोध्यम् । विशेषणविभक्तेरभेदार्थकत्वे घटोन नील इत्यादौ नत्रा नीलाद्यभेदाभाव एव प्रत्याययिष्यते नतु नीलादिभेदः । यादशसमभिव्याहारस्थले येन संबन्धेन यत्रधर्मिणि येन रूपेण यद्वत्त्वं नञसत्त्वे प्रतीयते तादृशस्थले नत्रा तद्धर्मिणि तादृशसंबन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतद्भावबोधस्य व्युत्पत्तिसिछत्वात् । प्रतियोग्यभावान्वयौ चेत्यादेरप्ययमेवार्थः । एवं च नमो भेदबोधकत्वं न कुत्रापि संभवति । अनीलं घटमानयेत्यादौ घटपदसामानाधिकरण्यानुरोधेनानीलपदस्य नीलभिन्नपरतया नञो भेदवत्येव लक्षणाया उपगन्तव्यत्वात् । इदं तु तत्त्वम् । असमस्तनीलो घट इत्यादिस्थलेऽभेदस्य संसर्ग तोपगमेऽपि ३७ क्षत्यभावादिति वाच्यम् धर्मत्वेन तत्प्रवेशे यथाश्रुतार्थताहाने दुवरत्वादिति । तुल्ययोगक्षेमाविति । योगः प्राप्तिः क्षेमो लुब्धपरिरक्षणम् तुल्यौ योगक्षेमी यस्येति व्युत्पत्तिः । प्रकृते च येन संबन्धेन यद्धर्मावच्छिन्ने यद्धर्मावच्छिन्नान्वयो नञोऽसमभिव्याहारे प्रतीयते तद्धर्मावच्छिन्ने तत्संबन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकाभावान्वय एव नञ्समभिव्याहारे प्रतीयते इत्येवार्थोऽस्य प्रकृतोपयोगीपर्यवसितो वेदितव्यस्तथैवग्रन्धकारेण वक्ष्यमाणत्वात् । शब्दार्थघटनात्वेवं कार्या प्राप्तिरत्र ज्ञानं तद्वयोस्तुल्यं तुल्यता च तुल्यसामग्री प्रभवत्वतुल्य विषयकत्वाभ्यां सामग्र्याः साम्यं नञ्तदर्थविषयकत्व परिहारेणाकाङ्क्षा देस्सर्वस्य सर्वथैकरूपता विषयत्वांशेऽपि साम्यं नञर्थतत्संसर्गपरिहारेण सर्वथैकविषयत्वं, लब्धस्य ज्ञातस्य परिरक्षणमबाधनम् । तदप्यना तोक्तत्वाद्यज्ञानप्रत्यक्षबाधाद्यभावेन तुल्यमिति । तादृशाननुगतसंबन्धेति । अथ नीलत्वादिप्रकारेण यावतां शाब्दबुद्धौ भानं तत्तद्वयतित्वावच्छिन्नभेदकूटत्वावच्छिनाभाव एक एवास्तु संसर्गः । नश्येवमेकवाक्यतासमर्थनक्लेशलेशोपि संसर्गताया एकत्वेन प्रकारत्यादिभेदाप्रसक्तेः कूटलं चापेक्षा बुद्धिविशेषविषयत्वात्मकमेकमेव तत्र तत्र प्रतियोगितावच्छेदकमिति संसर्गभेदविरहात्, कूटत्वस्यैकविशिष्टापरत्वरूपत्वपक्षेऽपि समनियताभावानामेकत्वेनैक एवाभावः संसर्गः । नच संसर्गतावच्छेदकतादृशाभावत्वस्य भेदात्संसर्गताभेद इति वाच्यं स्वरूपत एव तादृशाभावस्य संसर्गलाङ्गीकारात् सखण्डस्यापि संसर्गविधया स्वरूपतो भानस्य तत्र तत्र स्वीकारात् । अथवा स्वरृत्तितद्व्यक्तिरेवास्तु संसर्गः तद्व्यक्तिश्च निरुक्ताभावरूपा नीलवादिप्रकारेण पटादिभाने पटवृत्तिलोपलक्षिताया अपि पटादिगततद्वयक्तित्वावच्छिन्न भेदकूटाभावात्मकव्यक्तर्न घटे सत्त्वमिति न नीलोघट इत्यस्य प्रामाण्यप्रसंग: । एवं च घटो न नील इत्यत्राप्यनुगताभावस्यैव भासमानतया न तस्य प्रामाण्यप्रसंग इति चेत्र षट्सु घटेषु षण्णां नीलानां तादत्म्यावगाहने तत्तद्व्यक्तिभेदषट्वाभावस्य नीला घटा इत्याकाङ्क्षयैव संसर्गतया मानमभ्युपेयते । तादृशवसंसर्गस्तादृशाकाङ्क्षया तादृशषद्घटकघटत्रयेऽपि स्वानात्मकनीलत्रयमाने सति तात्पर्ये भासेत तथासति हि तादृशतात्पर्येणोच्चरितस्यापि नीला घटा इत्यस्य प्रामाण्यं स्यादिति । नतु नीलादिभेद इति । नीलादिभेदत्वेन नीलादिभेद इत्यर्थः तेन समनियताभावानामैक्येऽपि न क्षतिः । अभेदस्य संसर्गतोपपादिकां युक्तिमाह । इदंतुतत्त्वमित्यादिना । अथ नीलो घट इत्यादिस्थल इत्याद्युक्तावेव सामञ्जस्ये इसमास इत्युक्तिः कथमिति चेदुच्यते, संसर्गतया भानन्तु समासस्थल एवेत्यादिना समासस्थले सर्वथैवाभेदस्य संसर्गतया भानस्य प्रागुक्तत्वेन तत्साधारण्येनात्राभेदस्य संसर्गयोपपादने संदर्भाशुद्धिः स्यात्, समासे विशेषण विभक्तेरभावेन तत्र विशेषण विभक्तेर्वृत्तिकल्पनमनुचितमिति ग्रन्थासङ्गतिव स्यादिति नीलोघट इत्यादिस्थल इयत्रादिपदेनाभेदान्वयबोधकपुरस्कृत्य समासवाक्यबोधो मा प्रसाङ्गीदित्यसमास इति विशेषणोपादानम् । किंवा समाएवेत्यादिप्रागुक्तग्रन्थप्रतिपक्षलमेतद्व्रन्थस्याभिद्योतयितुमसमास इत्युक्तम् । अपिच तत्रानुकर्षणीयः । अथवा असमास इत्येव विशेष्यं तत्रावच्छेदकावच्छेदेनान्वयस्यौत्सर्गिकत्वेन विरुद्धविभक्त्यवरुद्धवाक्ये विशेषणविभक्तिविरहेण तत्र विशेषणविभक्तेरित्यादिसंदर्भविरोधः स्यादिति नीलोघट इत्यादिस्थल इति विशेषणोपादानमिति । अभेदस्य संसर्गतोपगमेऽपीति । अभेदवृत्तिकल्पनागौरवातिरिक्तगौरवविरहो यथाऽभेदप्रकारतापक्षे तथाऽभेदस्य संसर्गतापक्षेपीत्ययमर्थोऽपिना सूचितः । उपयुज्यते चायं वृत्तिकल्पनानौचित्यपरिपोषे संसर्गतापक्षे यदि ततोऽतिरिक्तं गौरवं स्याद्वृत्तिकल्पनाया अनौचित्यन्न स्यात् यथा च संसर्गतापक्षे पराशयस्थस्य गौरवस्य विरहस्तथानुपदमेवोपपादयिष्यते । एवंचाधिशब्दवै• यर्ध्यशङ्कायाः प्रकारतामते वृत्तिकल्पनागौरवस्य सद्भावादसङ्गतेश्च निरासः । अथ प्रागभेदस्य संसर्गत्वमाश्रित्य विशेषणविभक्तेः पदसाधुलार्थकत्वमभिधाय निरर्थकत्वप्रायस्य तस्य दुष्टत्वं मनसि निधाय च विशेषणविभक्तेरभेदार्थकत्वमभिहितं नतु लाघवादित इत्युक्तदूषणपरिहारमनभिधायाभेदस्य संसर्गलोपगमः संदर्भविरुद्धतामवलम्बत इति चेद्विकरणादेः सर्वमत एव पदसाधुत्खमान्नार्थकत्वस्य कृप्ततया विशेषणविभक्तौ तद्दृष्टान्तेन तस्या यत्किंचिदर्थोपस्थापकत्वाभावेऽपि प्रतिपित्सितार्थ वाक्यत्वरूपसामान्यधर्म सस्थल

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218