Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 32
________________ २८ व्युत्पत्तिवादः । पदस्य विशेष्यवाचकपदाप्रकृतिकविभत्त्यप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमेव तादृशान्वयबोधौ. पयिकाकाङ्क्षा । विशेष्यवाचकपदनिष्ठविशेषणवाचकपदाप्रकृतिकविभक्त्यप्रकृतित्वं च न तथा, नीलघटमानयेत्यादावसंभवादिति । तदसत् । विशेष्यवाचकपदाप्रकृतिकस्वस्थ तारशपदानुत्तरत्वस्य तदुत्तरत्वेनाप्रतिसन्धीयमानत्वरूपस्य वा नीलो घट इत्यादौ नीलादिपदसमभिव्याहृतविभक्तौ घटपदसमभिव्याहृतविभक्तिभिन्नतया सत्त्वात् । अथ विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्य विवक्षणान्न दोष इति चेत्तर्हि विभक्तित्वादिकमजानतः पुरुषस्य तादृशधर्मशानासंभवाच्छाब्दबोधानुपपत्तिः। नीलो घट इत्यादावपि सुपदस्याम्पदत्वादिभ्रमदशायां तादृश. बोधस्यानुयात् । नीलस्य घट इत्यादावपि षष्ठ्यादेः सुपदत्वादिभ्रमदशायां शाब्दबोधोत्पत्त्या स्व. रूपतो विरुद्धविभक्तिराहित्यस्याप्रयोजकत्वात् । अथ नीलो घट नीलघट इत्यादिद्विविधबोधसाधारणं ---------...- --.---.---...... .-.-..एवञ्च योग्यताज्ञानाकालाज्ञानादीनां परस्परसहकारित्वसंपत्तये एकधर्मावच्छिन्नं प्रति कारणवसंपादनक्लेशः केषांचिदनादेय एव एकधर्मावच्छिन्नकार्यतानिरूपितकारणवस्यासहकारिवरूपत्वात् । अन्यथा साधारणधर्मवत्ताज्ञानस्य प्रत्येककोटिसाहचर्यावच्छिन्नप्रकारताकज्ञानत्वेनोपस्थितिद्वारा कारणलपक्षे द्वयोः सहकारिखकथनं ग्रन्थकृतो विरुद्ध्येत असाधारणधर्मवत्ताज्ञानजन्यसंशये व्यभिचारवारणाय खखाव्यवाहतोत्तरसंशयवावच्छिन्नं प्रत्येव कारणवस्योक्तत्वेन द्वयोरेकधर्मावच्छिन्नं प्रत्यकारणलात् व्यापकसामग्याः सहकारिखानुपपत्तेश्च । नच तत्राप्येकज्ञानाव्यवहितोत्तरसंशयं प्रत्येवापरज्ञानस्यापरज्ञानाव्यवहितोत्तरसंशये चैकज्ञानस्य कारणखकल्पने न सहकारिखहानिरिति निर्मूलस्तत्परित्यागो नादरणीयो ग्रन्थकृतामिति वाच्यम् सामग्रीव्याप्त्यभ्यु. पगमेन सर्वसामञ्जस्ये अनन्तकार्यकारणभावकल्पनागौरवस्यैव तदुपेक्षाबीजत्वात् । तथाहि नीलोघट इत्याद्याकाड्डाज्ञानाव्यवहितोत्तरखावच्छिन्न प्रत्येव योग्यताज्ञानस्य नीलादिपदजन्योपस्थित्यादेश्च कारणत्वे यत्रैकं योग्यताज्ञानस्यैकमुपस्थितेस्तत्र तयोरनन्तं कारणलं स्यात् पर्यायशब्दद्घटिताकाहाज्ञानाव्यवहितोत्तरत्वरूपकार्यतावच्छेदकानन्त्येन निरूपकीभूतकार्यताया आनन्त्यात्। नच सामग्रीव्याप्ती स्वीकृतायामनर्थकः कार्यकारणभाव इति वाच्यम् कार्यकारणभावमूलत्वात्सामग्रीव्याप्तेरन्यथा च्याप्यतावच्छेदकसमुदायलस्य दुरधिगमलप्रसङ्गात् , कारणाकारणविभागाभावे सत्येकशेषस्य कर्तुमशक्यलात्, पौर्वापर्यनियमात्मककार्यकारणभावस्यान्वयव्यतिरेकाभ्यां सप्रमाणत्वेनापलोतुमशक्यत्वाच्च । यत्तु आकाङ्क्षाज्ञानाव्यवहितोत्तरखावच्छिन्नं प्रति योग्यताज्ञानादिविशिष्टाकाहाज्ञानत्वेन कारणलं वाच्यम् इति न केवलयोग्यताज्ञानाच्छाब्दबोध इति तन्न एककारणपरिशेषापत्यासहकारिवादभजप्रसन्नात् विशेष्यविशेषणभावे विनिगमनाविरहेण गुरुधर्मावच्छिन्नानां प्रत्येककारणतासमसङ्खयाककारणता. नामापत्तेः ग्राहकेणान्वयव्यतिरेकेण योग्यताज्ञानस्य गृहीतायाः कारणताया अपहोतुमशक्यत्वाच्च । अथास्वाकाङ्क्षाज्ञाननिष्टान्यतमत्वमखण्डोपाधिरूपमेव कारणतावच्छेदकं लाघवादिति चेन्न कार्यानुपलब्धिलिङ्गकानुमानभङ्गप्रसङ्गात् तृणारणिमणीनां फूत्कारनिर्मन्थनतरणिकिरणसंयोगरूपनियतसहकारिसहकृतानामन्यतमत्वेन कारणत्वे सहकारिनियमानुपपत्तश्चान्यतमत्वस्य कारणतावच्छेदकताया दूषितवादेकत्र निणीतशास्त्रार्थस्यान्यत्रापि प्रसरात् । नच तत्तत्सहकारि विशिष्टस्यान्यतमत्वेन कारणत्वे नानुपपत्तिरिति वाच्यं तथाविधान्यतमत्वस्य केवलेपि सत्त्वेन सहकारिरहितादपि कार्यापत्तेः; अपश्चितमेतन्यायकुसुमाजलिप्रकाश इत्यलम् । विशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहित्यस्येति । अथ विशेष्यवाचकघटादिपदानां तत्तद्विभक्तित्वेन प्रवेशो घटपदत्वेन वा । नाद्यः नीलोघट इत्यादीनामप्येकाकालाऽसंभवप्रसङ्गात् । एवमाद्यपक्षे तादृशधर्मवद्यकिचिद्विभक्तिराहित्यं प्रवेश्यते तादृशधर्मवद्विभक्तिसामान्याभावो वा । आये नीलस्यघट इत्यत्राप्याकाडापत्तेः द्वितीये प्रथमाभिन्नविभक्तिवस्यातिप्रसङ्गाधनापादकस्य संभवेन गुरुधर्मस्य प्रतियोगितानवच्छेदकत्वेऽभावाप्रसिद्धः तादृश विभक्तिव्यक्त्यभावकूटस्य प्रवेशे च कूटत्वस्यैकविशिष्टापरत्वरूपतया भावव्यक्कीनामानन्त्येन कारणतावच्छेदकानन्त्यप्रसङ्गात् । न द्वितीयः तत्र घटपदोत्तरलवद्यत्किचिन्निरूपितवृत्तिलाभावो निवेश्यते घटपदोत्तरलवनिरूपितवृत्तित्वसामान्याभावो वा । आये नीलोघट इत्यत्रापि घटपदवादिना घटपदाव्यवहितोत्तरद्वितीयादिनिरूपितवृत्तित्वाभाववलस्य प्रथमात्वेऽपि सत्वेनाकाङ्कानापत्तेः द्वितीये नीलस्य घट इत्यत्राप्यापत्तेः डस्वादिष्वपि घटपदाव्यवहितोत्तरनिरूपितवृत्तित्वसामान्याभावविरहात् डसादिविभक्तरपि घटप्रातिपदिकादुत्पत्तेरिति चेदुच्यते नीलोघटो नीलघटः नीलंघदं नीलघटमित्यादीनां दिशः समासव्याससाधारणं पृथगेव घटपदोत्तरवाद्यवृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहिल्यमाकाला एवंसति घटपदत्वेन प्रवेशेपि न क्षतिः घटपदोत्तरखाद्यवृत्तिवस्य द्वितीयालादी सत्वात् नीलादिपदोत्तरस्वाद्यवृत्तिविभक्तिविभाजकधर्मवद्विभक्तिराहिल्यं तु खाद्यन्तनीलादिपदरामभिव्याहृतत्वविशेषितमेवाकावारूपं वाच्यमन्यथा नीलस्य घट इत्यत्राप्याकाडापत्तेः तच न समाससाधारणं यत्र समासघटकविशेषणपदस्य विशेषणविभक्त्यन्तवं न केनापि प्रति संनिहितं तत्र खाद्यन्तनीलादिपदसमभिव्याहृतख

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218