Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 36
________________ -.-.-. .. ३२ व्युत्पत्तिवादः। लभेदत्वावच्छिन्नाभावः प्रतीयते इति वाच्यम् । पदार्थद्वयसंसर्गभानस्यैवाकाङ्गामियम्यत्वानील भेदत्वावच्छिनप्रतियोगितान्तर्भावेण वृत्तिं विना भेदरूपपदार्थतावच्छेदकस्याभावे तादृशसंबन्धन भानासंभवात् मैवम् । भेदोऽभावश्च विशेषणविभक्तरर्थः विशिष्टलाभस्त्वाकाङ्क्षादिवशात् । एतेन भेदे नीलादिपदार्थान्वये एकदेशान्वयप्रसङ्ग इति निरस्तम् । नच विशेषणविभक्तेरभेदार्थकत्वे नील घट इत्यादावप्यभेदान्वयबोधापत्तिर्धान्येन धनवानित्यादौ तृतीयया अभेदबोधनाद् अभेदप्रकारकबोधे विरुद्धविभक्तिराहित्यस्यानपक्षणादिति वाच्यम् । द्वितीयादिनाऽभेदबोधने द्वितीयाद्यन्तवि. शेष्यवाचकपदसमभिव्याहारस्य प्रयोजकत्वमित्युपगमात् । अथ प्रमेयो घट इत्यादौ प्रमेयत्वावच्छि. -------- - - - - -- ---- --- - तत्पर्याप्तावच्छेदकताकप्रतियोगिताकाभावत्वेन विभक्त्यर्थतास्तु तथासति नाप्रसिद्धिर्नवा नीलत्वावच्छिन्नप्रतियोगिताकभेदवृत्तित्वेन तब्यक्तित्वे नीलादिपदार्थान्वयादनन्वयप्रसङ्गः । नवा नीलं जलमित्यादिप्रयोगापत्तिरिति वाच्यं नीलवावच्छिन्नप्रतियोगिताकभेदखरूपानुयोगिलातिरिकस्य तद्व्यक्तित्वस्याभावेनानन्वयतादवस्थ्यात् एकदेशान्वयदोषस्यात्रसत्वाच । एतेनावच्छिन्नप्रतियोगिताकत्वनिष्ठावच्छेदकताभिन्नभेदत्वनिष्टावच्छेदकताभिन्नावच्छेदकलानिरूपितप्रतियोगिताकाभावत्वेन विशेषणविभक्त्यर्थतायां प्रतियोगितांशे धर्माशे वा नीलस्य खबृत्तित्वेन स्ववृत्तिनीलवतादात्म्येन वान्वये नानन्वयप्रसङ्गादिर्दोषइति निरस्तम् । भेदा. भावश्चेत्यादिवश्यमाणकल्पापेक्षयात्रगौरवस्य दोषवाच । भेदप्रतियोगिताकाभावएवेति । प्रतियोगितासंबन्धेन भेदविशिष्टाभावएवेत्यर्थः। तेन भेदरूपपदार्थतावच्छेदकस्येत्यादिप्रन्थस्य नासंगतिः। नीलपदसमभिव्याहारादिति । नीलपदार्थस्य भेदे नीलत्वावच्छिन्नप्रतियोगिताकलसंबन्धेनान्वये तादृशभेदस्य संसर्गविधया शाब्दे भासमाना सामान्यतः प्रतियोगितात्वेनोपस्थितापि प्रतियोगिता समभिव्याहारमाहात्म्यात् नीलभेदलावच्छिन्न प्रतियोगिखरूपविशेषात्मतामवलम्बते। तथाच नानन्वयो न वा नीलं जलमित्यादिप्रयोगापत्तिरिति भावः।पदार्थद्वयेति । विभित्रशक्त्युपस्थापितार्थद्वयेत्यर्थः। अनन्विततयोपस्थितार्थद्वयेति यावत् । अनन्वितयोरन्वयभाने प्रभवल्याकाडा नबन्विततयोपस्थितयोस्तत्र पदस्यैव प्रभुखात् । तथापाकाहायास्तादृशपदार्थयोः सामान्यतः संसर्गभानएवासामर्थे किमु वक्तव्यं विशेषात्मतया तद्भासनव्यामृताविति यथोपस्थित्यैव प्रतियोगिल शाब्दबुद्धावपि भासते उपस्थिती च प्रतियोगितात्वेन द्वित्वाचवच्छिन्नापि प्रतियोगिता संसर्गतया भासतएव शक्त्यानन्त्यभयेन नीलभेदत्वावच्छिन्न प्रतियोगितात्वेन प्रतियोगिलमन्तर्भाव्य शक्तेर्वतुमशक्यलादिति नीलं जलमित्यादिप्रयोगस्य न वारणमिति भावः । भेदोऽभावश्चेति । तथाच तयोः संसर्गस्य पदानुपस्थितरवेनाकाहाभास्थताया एव वक्तव्यतया नीललावच्छिन्न प्रतियोगितासंबन्धेन नीलपदार्थान्वितभेदस्य नीलपदसमभिव्याहारवशात्तादृशभेदत्वावच्छिन्नप्रतियोगितासंबन्धेनेवाभावेऽन्वयस्य वाच्यलान्नापत्तिरिति भावः । अत्र भेदस्याव्याप्यवृत्तित्वे कपिसंयोगवान् वृक्ष इत्यत्र भेदस्यैव सत्वेनाभेदानुपपत्तिरिति तद्वारणाय यत्वप्रतियोगिखसामानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदकूटवत्तिल विशिष्टभेदत्वेन विशेषणविभक्त्यर्थता वाच्या तथाच तादृशः कपिसंयोगवद्भदो न वृक्षादाविति नानुपपत्तिरिति वचनं तदविचारमूलकमेवाभदस्य तत्र तादृशभेदाभावरूपतया तस्याप्यव्याप्यवृत्तित्वेन वृक्षेसत्वादनुपपत्तेरेवाभावात् । अथ कालिकादिना घटादावपि नीलादिभेदस्य सत्वेन विशेषणत्वसंबन्धावच्छिन्न प्रतियोगिखस्य संसर्गवं वाच्यं तथाच वहयभाववान् पर्वत इत्यस्यापत्तिः बढ्यभाववद्भेदस्य बदिखरूपतया विशेषणतया तस्यासत्वेन तदभावस्य पर्वते सत्वादिति चेन वप्रतियोगिमत्ताग्रहविरोधिताघटकसंबन्धावच्छिन्नप्रतियोगिवस्यैव संसर्गताया विवक्षितत्वात् । तथाच भावविशेषणतास्थले खरूपसंबन्धावच्छिन्नप्रतियोगितस्याभावविशेषणतास्थले संयोगाद्यवच्छिन्नप्रतियोगित्वस्य संसर्गत्वे पर्यवसानमिति न कश्चिद्दोषः । नच विशेषणविभक्तरभेदार्थकत्व इति । अनेनाभेदस्य संसर्गतामते नेयमापत्तिरिति सूचितम् अतोनतदुक्कैवयर्यशङ्कावकाशः । नचाभेदस्य संसर्गतामते धान्येन धनवानित्यादावष्यभेदसंसर्गकबोधस्यैवाङ्गीकर्तव्यत्वेन संसर्गतामतेप्यापत्तेस्तुल्यत्वाद्विशेषणविभक्तरभेदार्थकल इत्युक्तिनिरर्थिकैवेति वाच्यम् विशेषणविभक्तरभेदरूपार्थे प्रत्यक्षवचनानुशिष्टवाभावाद्वचने कल्पनीयेऽभेदबोधोपयोग्याकाङ्कानिर्वाहकतया तद्विधायकमेव हि वचनं कल्पनीयं शक्यकल्पनालाघवात् प्रकृत्यादिशब्दाद्धि तृतीया प्रत्यक्षवचनेन विहिता प्रत्यक्षं च वचनमशब्दसंस्कारकमर्थविशेषेसङ्केतं ग्राहयदेव विधायक दृष्टं यथा कर्मवादौ सङ्केतं प्रायद्वितीयादिविधायकं कर्मणि द्वितीयेत्यादि तथाच प्रकृत्यादिभ्य उपसंख्यानमित्यपि तृतीयाविधायकमर्थान्तरायोग्यत्वगौरवादिज्ञानसाचिव्यादभेदे सङ्केतग्राहकमकीकरणीयमिति द्वितीयाद्यर्थकर्मत्यादेरिव तृतीयार्थाभेदस्यापि प्रकारसमेवोचितमुपस्थितत्वस्य तुल्यत्वात् । नच विभक्त्यर्थप्रकारतामतेऽभेदस्यापि प्रकारसमेवाङ्गीक्रियते इति न भ्रमितव्यं तत्तदन्थपयोलोचनया तन्मतेऽप्यभेदस्य संसर्गताभ्युपगमप्रतीतेरित्यभिप्रायाविशेषणविभक्तीत्यायुक्तिसङ्गतिरिति । द्वितीयादिनेति । अथादिपदात्तृतीया परिगृह्येत चेद्धान्येन धनवान् प्रकृत्या चारुरित्यादावभेदान्वयबोधानुपपत्तिः, न

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218