Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः । भभेदाप्रसिद्ध्या लघुधर्मसमनियतगुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे कम्बुग्रीवादिमान् घट इत्यादावपि कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगिताकभेदाप्रसिळ्या विशेषणविभक्तेरभेदार्थकत्वासम्भवः । एवं नीलपटादिपरनीलादिपद्घटितस्य नीलो घट इत्यादिवाक्यस्यापि प्रामाण्यापत्तिः । नीलत्वादिना पटादेर्भदाभावस्थ नीलघटादौ सत्त्वात् । पतेन विशेषणतावच्छेदकीभूतनीलस्वप्रमेयत्वा दिकमेव विशेषणविभत्त्यर्थः नीलत्वादेर्नीलत्वावच्छिन्नभेदाभावरूपतयाऽभेदार्थकत्ववादोपपत्तिरित्यपि निरस्तम् । नीलत्वादी नीलत्वादिमतः स्ववृत्तित्वसंबन्धेनान्वये आकाङ्घाविरहाच्च । यथाहि तद्विशिष्ट अधिकरणे आश्रयतया तदधिकरणतया तदन्वयोऽनुभवविरुद्धः तथा तद्धमें आधेयतया तद्धर्मवदन्धयोऽपि । अत एव कर्म गच्छतीति वाक्यस्य निराकाङ्कता । नचैवं संसर्गतामतेप्यनिस्तारः नीलो घट इत्यादौ स्ववृत्तिनीलत्वादेः संसर्गतास्वीकारे उक्तस्थले प्रामाण्यापत्ते१रत्वादिति चाच्यम् स्ववृत्तिनीलत्वादेः स्वस्मिन्संबन्धतोपगमेन पटादिवृत्तिनीलत्वादेर्घटादौ पटादिसंबन्धताविरहेण तादृशातिप्रसङ्गाभावात् । वस्तुतस्तु तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एव नीलत्वादि प्रकारेण भासमानानां तत्तयक्तीनां स्वस्मिन् संबन्धतया भासते इति न काप्यनुपपत्तिः। संबन्धता च तस्य भेदप्रतियोगिताकाभावत्वेन तत्तद्वयक्तिभेदप्रतियोगिताकाभावत्वेन वेत्यन्यदेतत् । नचैवं विशे
परिगृह्येत सुन्दरेण घट इत्यादावप्यभेदान्वयबोधापत्तिरिति । नवभेदे तृतीयायाः प्रकृत्यादिभ्य इत्यनेनानुशिष्टत्वे घटे सुन्दरपदार्थाभेदस्यायाधितत्ये च सुन्दरेण घट इति प्रयोगः कथं नेष्यते । नचाभेदेपि प्रकृत्यादिशब्देभ्य एव तृतीयानुशिष्टेति न मुन्दरादिपदात्तुतीयासम्भव इति वाच्यम् अभेदेन व्यावर्तकरूपे भेदके विद्यमानाच्छब्दात्तृतीयाया व्याकरणान्तरेऽनुशिष्टतया तत्संवादात्प्रकृत्यादिगणपाटाभावाच प्रकृत्यादि शब्दस्य भेदकाापलक्षकताया एव पर्यवसानेन सुन्दरेणेति तृतीयाया दुर्वारखादिति चेन आकृतिगणोयमिति मनोरमादर्शनात्सूत्रेण यत्र तृतीया न प्राप्ता प्रयोगच प्रामाणिकोऽवधृतस्तत्र कात्यायनेन तृतीयासाधुलार्थे वार्तिकस्योपनिबद्धतया प्रयोगप्रामाण्यावधार्य प्रकृत्यादिगणव मिति हि विज्ञायते सुन्दरेण घट इति न प्रामाणिक प्रयोग इति तृतीयाथास्तत्रासंभवात् । एवं यथायोगं सर्व विभक्त्यपवाद इति शब्दरत्नदर्शनात्प्रकृल्या चारुरित्यत्र षष्ठयाः, समेनैति विषमेणेति सुखेन यातीत्यादौ द्वितीयाया गोत्रेण गार्य इत्यत्र प्रथमाया बाधिका तृतीयेति ग्रन्थान्तरार्थपर्यालोचनात्प्रकृतेश्चाहर्मोनोगार्यः मुत्रमेतीत्यादि प्रकृतिश्चारुरिल्यादि प्रयोगादर्शनाच प्रकृत्या दिगणशब्दाछत्र तृतीया न तत्र विभक्यन्तरस्य संभव इत्यवधार्यते दृश्यते च सुन्दरो घट इति सुन्दरशब्दस्य तत्प्रयोगस्थस्य प्रकृत्यादिगणीयत्वाभावोऽवसीयत इति नहि तत्र तृतीयाराम्भवः । यत्त्वनेन वार्तिकेण विहितायाः प्रकृत्या चारुः नाना सुतीक्ष्णः धान्येन धनवान् गोत्रेण गार्ग्यः सभेनैति सुखेन यातीत्यादौ सर्वत्रैवैकदेशान्विताभेदार्थ एव तृतीयाया दर्शनान्न सुन्दरेण घट इति प्रयोगसंभव इति तत्र धान्येन धनमिति मुग्धबोधटीकायां मुख्यार्थेऽप्यन्वये प्रयोगदर्शनादेतावता परमेण मुन्दर इति प्रयोगस्य साधुलासाधुखयोरेकशेषस्यासम्भवाच । व्याकरणान्तरमपि पाणिनीयसंवादाच्छन्दविशेषात्तृतीयानुशासकमेवाङ्गीकार्यमिति चेदुच्यते । प्रकृत्यादिशब्दोत्तरतृतीयातिरिक्ता तृतीयादिपदात्परिग्राह्यति न कोपि दोष इति । एतेनेति । उक्तवाक्यप्रामाण्यप्रस नेत्यर्थः । अथात्र घटपदसमानाधिकरणस्य नीलपदस्य गुणिपरत्वेन नीलरूपात्मकमेव नीललं विशेषणविभक्तरर्थस्तश्च घटपटयो कमिति कथमुक्तप्रयोगस्य प्रामाण्यापत्तिरितिचेन्न नीलवजात्यवच्छिन्नाधिकरणत्वमेवानुगतमिह हि नीलवं तद्विशिष्टपटपरमेव च नीलपदमित्युक्तप्रयोगप्रामाण्यापत्तिसशतिरिति । नचाधेयतयापटविशिष्टं नीलवं न घट इति कथमापत्तिसंभव इति वाच्यं विशेष्ये विशेषण मितिरीत्या जायमानायां शाब्दमतौ प्रामाण्यापत्तावेव तात्पर्यात् । अभेदार्थकत्वोपपत्तिरिति । नच प्रमेयखावच्छिन्नभेदाप्रसिद्ध्या प्रमेयलस्याभेदानात्मकतया प्रमेयोघट इत्यादिस्थलीयविशेषणविभक्तेः कथमभेदार्थकत्वोपपत्तिरिति वाच्यं क्वचिन्मुख्यार्थे संभवति तदसंभवादितरत्र गौणस्तदर्थ इति हि वक्तुं शक्यं यथा ग्राम गच्छतीत्यत्र द्वितीयाया मुख्ये कर्मवरूपार्थे सत्येव घटंजानातीत्यादौ तदसंभवाद्विषयत्वलक्षणगौणकर्मलार्थकलं तथेहापि नीलोघट इत्यत्र विशेषणविभक्तरभेदरूपमुख्यार्थखसंभवात् प्रमेयो घट इत्यत्र गौणाभेदरूपप्रमेयखाद्यर्थकत्व मित्याशयात् ।
स्वस्मिन्संबन्धतोपगमेनेति । तथाचायलं तत्र विशेषणमेव नोपलक्षणमिति भावः । भेदाभावस्था तत्वेनैव रूपेण संसर्गतामाह-वस्तुतस्त्विति । अन्यदेतदिति । अविचारणीयं भेदप्रतियोगिताकाभावत्वेन तद्यक्तिभेदखावच्छिन्न प्रतियोगिताकाभावत्वेन वा संसर्गलमित्यर्थः । पक्षद्वयेप्युक्तप्रयोगप्रामाण्यापत्तिवारणसंभवात् । पक्षयान्यतरसत्त्वासत्त्वफलकविचारस्य प्रकृतानुपयुक्तस्त्रादिति भावः । नच भेदलावच्छिन्नाभावखस्याप्रसिद्भुखाद्भेदप्रतियोगिताकाभावलस्य च तद्यक्तिभेदघटोभयाभावादिसाधारणतयोक्तरूपेण संसर्गत्वे निरुक्तोभयाभावस्यापि संयोगेन बहेः साध्यतायां संसर्ग.
५ व्युत्प०

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218