Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 27
________________ गूढार्थतत्वालोकव्याख्यासहितः । २३ aaisa घटोऽस्तीत्यादौ घटनिष्ठभेदप्रतियोगितानवच्छेदकै कत्वाप्रसिद्धावपि न क्षतिः । एतद्देशविधमानघटनिष्ठ भेदप्रतियोगितानवच्छेदकैकत्वस्यैव तत्र बोधादिति । तस्य च प्रसिद्धत्वात् । एतदेशे बहुघटसत्त्वदशायां तादृशवाक्यप्रयोगस्तु जात्येकत्वादेव समर्थनीयः । यत्तु एकत्याविवक्षायामपि भावाख्यातस्थले एकवचनस्य साधुत्वदर्शनात्संख्याया अविवक्षणेऽपि संपन्नो व्रीहिरित्यादावेकसंघटक वाच्यम् | वैशिष्ठ्यंच स्वानवच्छेद कानवच्छिन्नत्वस्ववृत्तित्व खानबच्छेदकसंबन्धा नवच्छिन्नत्व ख निरूपितविषयतात्वव्यापकत्वैतच्चतुष्टय संवन्धेन । व्यापकत्वं च खनिरूपितविषतात्वसंबधेन । विषयतावत्ता च खानवच्छेदकानवच्छिन्नत्वादित्रितयसंबन्धेन बोध्या । इदमत्रचिन्तनीयम् अलौकिकप्रत्यासत्त्यनङ्गीकारे अलौकिकार्थघटितवाक्यार्थस्थले शाब्दसमानाकारकप्रत्यक्षाप्रसिद्ध्या व्युत्पत्तिमहासम्भवः निरुक्तप्रत्यक्षानुपस्थितौ व्युत्पत्तिग्रहो दुर्घटश्रेति । यद्यपि यद्यपित्तव्यतित्वेन यागादेरित्यादिविभावनीयमित्यन्त ग्रन्थोपि काचित्क एव नन्चासौ प्रामाणिकतयोपादेयः शब्दानुगमसंभवासंभवावगतिभ्यां व्याघातात् । उक्तरीत्या शब्दानुगम संभवस्यावगतत्वे यद्यपीत्यादिशङ्काया एवानुन्मेषात् । अवगतत्वे एकवचनार्थान्वयस्य बहुप्रकारत्वेनैकमात्रस्थले तत्प्रदर्शने कृतेऽपि सर्वत्र शिष्याणां व्युत्पत्तिमहासम्भवेन संदर्भप्रवृत्तिफलानुपपत्तेः शाब्दबुद्धौ सर्वत्र विशेषस्यैव भासमानतया खसजातीयनिष्टेत्यादिग्रन्थस्याविचारितनिर्वाहार्थप्रवृत्तिकतथा न्यूनतापाताच्च । तथाप्येकविशेषप्रदर्शनेन साधर्म्यविशेषाद्विशेषान्तरप्रतिपत्तेः सूक्ष्ममतीनां संभवेन तन्मात्रोद्देश्यकप्रवृत्तिकतया कथंचित्संगतत्वमवलम्ब्य व्याख्येयः तथापि स्वतादात्म्येत्यादि । इदमन्त्रबोध्यम् एषा रीतिर्यत्रैकस्मिन्समभिव्याहृतपदार्थेऽनेकेषां संसर्गित्वसंभवस्तत्रैव नान्यत्र अन्यथा यत्र बहूनां भोजनकर्तृत्वं तत्राप्यत्र ब्राह्मणो भुङ्क्ते इति प्रयोगापत्तेः एकैकभोजनक्रियायां कर्तृद्वयासंभवेन तत्तदेकत्वे स्वाश्रयकर्तृकभोजनकर्तृनिष्टभेदप्रतियोगितानवच्छेदकत्वसम्भवात् । भेदप्रतियोगितेति । प्रतियोगिताव्यासज्यवृत्तिधर्मानवच्छिन्ना प्रतियोग्यवृत्तिभेदनिरूपिता वा प्रात्या नात उभयभेदादिकमादाय दोषः । ननु कस्यचित्कुठारस्य कुठारान्तरकरणकच्छेदन क्रियाकरणस्यैकस्यैव यत्र छेदनकरणत्वं तत्र कुठारेण च्छिनत्तीत्यस्यानुपपत्तिः तत्राप्युक्तरीत्यैवैकत्वस्यैकवचनार्थताया वाच्यतया तदसंभवात् तत्कुठारनिष्ठैकत्वस्य स्वाश्रयकरण - कच्छेदनकरणकुठारनिष्टभेदप्रतियोगितावच्छेदकत्वात् इत्यतः कल्पान्तरमाह--अथवेति । तथासत्यस्या एव रीतेः कुठारेण च्छिनतीत्यत्राप्यनुसर्त्तव्यत्वेन नानुपत्तिः तत्रत्यच्छेदनस्य खानाश्रयकुठाराकरणकत्वादिति । ननु देवतोद्देशेन द्रव्यत्यागस्यैव यागत्वेनैकयागत्वावान्तरधर्माश्रयस्य प्रत्येकेणोभयकरणकत्वेऽपि तत्तद्व्यक्तौ खानाश्रयपशुकरणकत्वसत्वेबाधकाभाव इति चेन्न खानाश्रयपशुकरणकावृत्तियागत्वावान्तरधर्मवत्वस्यैव संसर्गत्वात् । अनेकपशुकरणके तन्त्रेणानुष्ठेये यागविशेषादौ नैकपशुकरणकत्वप्रसङ्गः फलविशेषजनकतावच्छेदकावान्तरधर्मस्य तत्तत्त्यागेष्वेकत्वादिति । अथैकत्वस्य पशावनन्वये प्रत्ययस्य प्रकृत्यर्थान्वितस्वार्थबोधकताव्युत्पत्तिभङ्गः नन्वाधेयतया पशोरेकत्वे तस्य च यागेऽन्वय इति न व्युत्पत्तिभङ्गः । एवंचैकत्वे विशेषणतयान्वितस्य करणत्वे विशेषणत्वासंभवादगत्या करणविभक्तेः करणत्वसंसर्गतात्पर्यनिर्वाहकत्वमेव वाच्यं । तथासति पदार्थविधया वक्ष्यमाणरीतेः पशुकरणत्वभानस्यावश्यकतया स्वाश्रयपशुकरणकत्वसंसर्गस्य वैफल्यमिति शङ्कापि निरस्तेति वाच्यम् । सुबर्थसंख्यायाः प्रकृत्यर्थविशेषणत्वनियमस्य तथापि बाधप्रसङ्गादिति चेत्र अगत्या पदार्थः पदार्थेनेत्यादिनियमसङ्कोचस्येवोक्तनियमसंकोचस्याप्यदोषत्वात् । अथवोक्तदोष भयेनैव तादृशविधिजन्यबोधस्य विशिष्टवैशिष्ट्यबोधात्मकतयेत्यादिना कल्पान्तरं वक्ष्यति तन्त्रैकत्वस्य पशावन्वये विशिष्टवैशिष्ट्य मानमर्यादावशायुत्पत्तिवैचित्र्याङ्गीकारेण धर्मिपारतन्त्र्यात्परम्परया यागकियायामन्वयस्वीकारात् नह्युक्तव्युत्पत्योर्भङ्गः । नचैवं स्वाश्रयपशुकरणकत्वस्य संसर्गत्वोक्तिवैफल्यमिति वाच्यं तस्य संपातायातत्वात् । स्वाश्रयकरणकत्वमात्रसंसर्गत्वेऽपि दोषाभावेन पशुत्वेनाश्रयप्रवेशस्य संपातायाततायाः सर्वथैव वक्तव्यतया समस्तस्यापि तथात्वे क्षत्यभावात् स्वानाश्रयपशुकरणकत्वसंसर्गे व पशुत्वस्याप्रवेशे यागस्य पशुकरणकत्ववन्मन्त्रकरणकत्ववत्तया स्वानाश्रयाकरणकत्वस्यासंभवः स्यादिति तदुपादेयमेव । इदन्तुचिन्तनीयं । स्वतादात्म्यखानाश्रयपश्वकरणकप्रकृतवाक्यतात्पर्यविषययागकरणकत्वोभयसंबन्धेनैकत्वविशिष्टैकत्वस्य पशावन्वयेऽपि न क्षतिः । एतस्या एव रीतेः कुठारेण चिच्छनत्तीत्यत्राप्यवलम्बनीयतया तात्पर्यविषयच्छेदनक्रियायास्तत्कुठारनिष्ठैकत्वानाश्रयकुठाराकरणकत्वात् । कुटारद्वयकरणकच्छेदनक्रियायास्तात्पर्यविषयत्वे च तस्यास्तादृशाकरणकत्वस्यासंभवादनुपपत्तेरापत्तेश्चासंभवात् तथासति सुबर्थसंख्याधात्वर्थयोरन्वयावलबिपक्षावलम्बनं किमर्थमिति । अप्रसिद्धमिति । नच पश्वकरणकयागादौ तत्प्रसिद्धेरसङ्गतिरितिवाच्यम् पशुकरणकयागइत्यस्य पूरणीयत्वात् तथाचाप्रसिद्धमित्यविद्यमानमिति पर्यवसितार्थः । अधावच्छिन्नप्रतियोगिताकेत्यत्रावच्छिनत्वं यद्यवच्छेदकता निरूपितत्वमात्रं तदैकत्ववद्धढोभयभेदस्यैकत्वाश्रयेऽपि सत्वेनानुपपत्तिः । यदि स्वभिन्नावच्छेदकत्वानिरूपितत्वविशेषितं तदा खत्वप्रदेशे ऽननुगमः अप्रवेशे च तादृशानिरूपितत्वाप्रसिद्धिरितिचेत् विलक्षणमेवावच्छिन्नत्वमनवस्थाभयेन स्वीकरणीयं तदेव च प्रकृले प्रवेश्यमिति नानुपपत्तिरिति गृहाण । प्रतियोगित्वनिष्ठावच्छेदकताभिन्नभेदत्वनिष्ठावच्छेदकताभिमावच्छेदकत्वानिरूपितभेदनिष्ठा

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218