________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६८) अजखमंबु वहनाद्यथा नद्या न रुध्यते । तथा विज्ञानदृक् बोधात् क्षणमात्रं न रुध्यते॥१५ न विस्मरत्यविरतं यथा कालः कलागतिम् । न विस्मरत्यविरतं वात्मानं प्राज्ञधीस्तथा ॥१६ न विस्मरति सर्वत्र यथा सततगो गतिम् । नावस्मरति निश्चयं चिन्मानं प्राज्ञधीस्तथा॥१७ गतिः कालकला यद्वञ्चिन्वाना समवस्थिता। चिञ्चितिश्चैत्यरहिता चिन्वाना गतयस्तथा ॥१८ यथा सत्ताविहीनात्मा पदार्थो नोपलभ्यते। तथाऽऽत्मज्ञानहीनात्मा कालो ज्ञस्य न लभ्यते१९ न संभवति संसारे गुणहीनो गुणी यथा। न संभवत्यात्मसंविद्वर्जितो ह्यात्मवांस्तथा॥ २० सर्वदेवाऽस्मि संबुद्धः सर्वदैवाऽस्मि निर्मलः । सर्वदेवास्मि शांतात्मा सर्वदास्मि समाहितः॥२१ ६ ॥ भेदः केन समाधेर्मे जन्यते कथमेव वा। आत्मनोऽव्यतिरेकेण नित्यमेव सदात्मता ॥ २२ तस्मात्कदाचिदपि मे नासमाधिमयं मनः। नो वा समाहितं नित्यमात्मतत्त्वैकसंभवात्॥२३
For Private and Personal Use Only