Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७४ ) परिग्रहरक्षाथै किमुत विलासार्थ तत्र. नाद्यः-"सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाण” इति वचनाच्छरीरस्थितेः प्रारब्धाधीनत्वात् तदुद्दिश्य विदुषः कर्मानुपपत्तेः । न द्वितीयः, एतं वै तमात्मानं विदित्वेति श्रुतेः निशेष निवृत्तमिथ्याज्ञानानां ब्रह्मविदां पुत्र वित्तलोकैषणाभ्यो व्युत्थान श्रवणात्ताभ्य उत्थितवतो विदुषः परिग्रहाभावात्तद्रक्षानिमित्तकं कर्मानुपपत्तेः । न तृतीयः-सर्वमात्मानमेव पश्यत आत्मरतेर्विदुषोऽन्यत्ररत्यप्रसक्तो विलासासंभवात् ॥
३॥ तामुष्मिकार्थमस्त्विति चेत्तत्रापि किं स्वर्गार्थं वाऽपवर्गार्थं किमात्मशुद्ध्यर्थं वा तत्र । नाद्यः-“ पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयंति कामा” इति सर्वकामप्रविलयश्रवणाद्विदुषः स्वर्गकामासंभवात्तदर्थकं कर्मानुष्ठानानुप्रपत्तेः ।
For Private and Personal Use Only

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268