Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८२ ) ॥ गृह्यपि विद्वान् यदि न व्युत्तिष्टेतदव्युत्थानमेव विज्ञापयत्यज्ञानतत्कार्यनिगृहीतत्वं विदुषः॥ ब्रह्मविदां देहादौतादात्म्यमतीवदुःखं तत्तादात्म्येनाहंममेतिप्रवृत्तिस्ततोऽतिदुःखं तत्रापि कर्मकरणमत्यंतदुःखमेवेति विज्ञाय गृहस्थोऽपि विद्वान् सर्वं संन्यस्यत्येव न स्वार्थं न परार्थं वा कर्म कर्तुं शक्नोति ॥
७॥ ननु ॥ सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ अनेनाऽपरोक्षज्ञानिनोपि लोकसंग्रहार्थ कर्म कर्तव्यमेवेति चेत् भवानत्र पृष्टव्यः अपरोक्षज्ञानी द्विविधः सिद्धः साधकश्चेति तयोः किं सिद्धस्योच्यते साधकस्य वा । नाद्यः ॥ मुक्तत्वात् तस्य लोकसंग्रहानुपपत्तेः सर्वमिदमहं च ब्रह्मैवेति नित्यनिरंतरब्रह्मनिष्ठया निशितीकृतपरावरैकत्वविज्ञानखड्रेन द्वैतविभ्रमबंध विच्छिद्य ब्रह्मादिस्तंबपर्यंतैः सर्व
For Private and Personal Use Only

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268