Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७८ ) ५॥ ननु तर्हि विदुषः कर्माचरणं परार्थमेव इति चेत् भवानत्र प्रष्टव्यः लोकार्थ यः कर्म करोति स किमपरोक्षज्ञानी उतपरोक्षज्ञानी वा तत्र आये स यतिर्वा गृहस्थो वा। नाद्यः-तस्य निरभिमानीत्वात्संन्यस्त सर्व कर्मतत्साधनस्त्वाच्च कर्मशब्दाऽप्रसक्तः देहवर्णाश्र. मादिष्वहंममेत्यभिमानः प्रपंचसत्यत्वबुद्धिरर्थित्वं क. र्तव्यताबुद्धिरकरणे प्रत्यवायभयं शास्त्रभयं च खलु प्रवृत्तेजिं तदेतत्सर्वमपि समूलं परावरैकत्वविज्ञान महाग्निना निर्दह्य स्वयं निष्क्रियब्रह्मात्मना तिष्ठतो निर्दग्धाऽनात्मतादात्म्यग्रंथेः सर्वात्मभावापन्नस्य स्वात्मारामस्य यतेरतिवदनमेव न संभवति किमुत कर्मणि प्रवृत्तिरिति तथा च श्रुतिः ॥ प्राणो ह्येष सर्वभूतै विभाति विजानन्विछान् भवते नातिवादीति ॥ ततो ब्रह्मनिष्ठयतेः स्वार्थं वा परार्थं वा कर्मणि प्रवृत्तिन संभवति ॥
For Private and Personal Use Only

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268