________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २० ) ॥ समाधानं सर्वजगतः कर्ता भर्ता संहर्ता स एव ईश्वरः तद्भक्तिश्च सर्वदा सर्वत्र तदर्शनं ततो भीतिस्तत्रातिशयप्रीतिश्च ॥ के संति संतोऽखिलवीतरागा अपास्तमोहाः शिवतत्वनिष्ठाः ॥
१२ ॥ प्रश्नः-अस्मिन्ससारे के भयातुराः संति तथा के च सर्वदा दुःखिनो भवंति एवमस्मिन्संसारे दीनतराश्च के संति तत्सर्वं मे ब्रूहि ॥ समाधानं येऽ स्मिन्संसारे धनिनः संति ते भयातुरा एव भवंति चौराद्राज्ञो बलिनश्च ।। स्वल्पधनी बहुकुटुंबी यः सैव दुःखी भवति महदाशावान्दीन एव बोद्धव्यः॥
१३॥ प्रश्नः-सर्वदा निभाः के संति के च सुखिनो भवत्येवं निर्दीना आप मया के ज्ञातव्या एवेति ॥ उत्तरं-ये धनजनसंबंधवर्जिता विलसंति ते निर्भया ज्ञातव्या वा ये मनसा वाचा शरीरेण पापं न कुर्वन्ति ते निर्भयाः संति ये सर्वदा परोपकारिणस्त एव निर्भया वा दृढापरोक्षज्ञानिनः ते निर्भया वा ये दृढपरोक्षज्ञानिनस्ते निर्भया अस्मिल्लोके रमंति ये निरंतरज्ञाने वा ध्याने वा निरता भवंति ते च सु. खिनः संति येऽपरोक्षज्ञानिनः संति ते निर्दीनाः संति॥
For Private and Personal Use Only