________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६६ ) मोक्षस्याकर्मतंत्रत्वाद्विश्वमायानिवृत्तिःश्रुतिविरोधाच।।
४॥इति चेदितिसत्यं अयमत्राशयो भगवतो वशिष्टस्य लक्ष्यते न जीवो नाम ब्रह्माकाशादतिरिक्तः कश्चिदस्ति ब्रह्मैवांतःकरणोपाधिषु मायया विभक्तं तद्गतकामकर्मवासनानुसारेण संसरदिव विभाव्यमानं जीव इत्युच्यते तत्रांतःकरणानां दीपवबहूनां मेलने एकत्वमुपचयश्च भवति एकस्य च योगदेवताप्रसादादिनिमित्तवशायुगपद्विरुद्धानेकदेशभोग्य कमोंद्भवाचानेकजीवभावोऽपि भवति तत्र यदा बहूनां जीवानां तुल्य देश काल भोग्य समान काम कर्म वासनोद्भवस्तदा तद्दोगाय मेलने
For Private and Personal Use Only