________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८)
६॥तदा सा तापस्युवाच-भोः पुत्र तत्पदं गुरोरर्चनांविना ईश्वराऽनुग्रह मंतरेण च ज्ञातुं न शक्यते सहस्त्रवार स्वयंशास्त्राणामवलोचनं कृत्वापि मोहमेव प्राप्नोति ततस्त्वया सावधानमनसा मे वाक्यानि श्रोतव्यानि यावत्कालं तत्पदमहमस्मीति नैव विजानाति तावत्कालं सहस्रवारं श्रुत्वाापे परोक्षज्ञानीभूत्वा विमुक्तो न भवति यथा परोक्षनिधिर्दुःखं दारिद्रतां च हतुं न शक्नोति यथा कश्चिन्मूढो स्वकंठे हारं श्रुत्वापि विनादर्शनक्रियां हार न लभते न च सुखीभवति तथा तत्त्वमसीति श्रुत्वापि यावश्यं त्यक्ता निर्विकल्पात्मनि तत्परो न भवति तावत्कालमपरोक्ष स्वमात्मानमननुभूय मोक्षं नैवाप्नोति न च सुखं वा लभते ॥
७॥अधुना प्रसंगप्राप्तमात्मस्वरूपं त्वं शृणु हे ऋषे यथा स्वयंप्रकाशमानाः सूर्यचंद्राग्नितारा नक्षत्र. दीपादयोऽन्यान्प्रकाशयंतः संतस्तैश्च सर्वैः स्वयमप्रकाशमानाः-संतोऽपि ते किंन संति नवा प्रकाशमाना भवंतीति विनामूढं कोऽपि वक्तुं शक्नोति तथा सजातीय विजातीय स्वगतभेद शून्यं देशकाल वस्तु भेदशून्यं
For Private and Personal Use Only