Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ 11411
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीभवद्वाण्या महानतिशयः, अतः श्रोतुः कष्टं न भवति । क्षुत्तृट् च न लगति । तत्र दृष्टान्तमाहएकस्मिन् ग्रामे एको वणिग् वसति । तस्य गृहे एका वृद्धा कर्मकरा भारवाहिका वर्तते । सैकदा वने समित्काष्टभारमाहर्तुं गता । मध्याहूने क्षुत्पीडिता इन्धनं गृहीत्वा तस्य गृहे समागता । श्रेष्टिना सा दृष्टा, पृष्टा च " इन्धनं स्तोकं कथमानीतं ? पुनरपि त्वं वने याहि, पश्चादागत्य भोक्तव्यम् । " तदा सा वृद्धा क्षुत्पीडिता वने गता, पुनवेन्धनं गृहीत्वा शिरस्युत्पाटय चलिता । मार्गे चरणस्खलनत एकमिन्धनं पतितं, तदा सा तद् ग्रहीतुं नम्रीभूता ।
इतस्तस्मिन् वने श्रीवीरः समवसृतः सन् देशनां ददाति भव्यानामग्रे तृतीयप्रहरे । तदा तया वृद्धया सा जिनवाणी श्रुता । तद्विमहात्म्यतस्तस्याः क्षुद् गता दडपि गता । तद्गिरास्वादनतस्तत्रैव सा स्थिता । तदा गौतमस्तां तत्रैव तथावस्थां स्थितां वा श्रवीरं प्रति कथयति - " हे भगवन् ! इयं वृद्धा कथमत्रैवैवं स्थितास्ति । " तदा भगवता प्रोक्तम् - " भो गौतम ! अद्वाणप्रभात इयं स्थिताऽस्ति " । ततः श्रीवीरमुखात् सर्वैरपि तस्या वृत्तान्तः श्रुतः । तदा ते चिन्तयितुं लग्ना 'अहो वीतरागवाण्या महानतिशयो वर्तते ' ।
अथ देशनानन्तरं सा गृहे समागता, तदा श्रेष्ठिनोक्तम् - " त्वं कथं शीघ्रं नायाता ? " तयोक्तम् - " भो श्रेष्टिन् ! मयाजिनवाणी बने श्रुता, तद्रसेन च मदीया क्षुत्तृषा च प्रशान्ता तेन कारणेन चाहं शीघ्रं नायाता " । पश्चात्तया श्री जिनधर्मोपरि भावः समुत्पादितः, तेन च सा सुखिनी जाता । अत एव धर्मेच्छुभिर्जिनवाणी श्रोतव्या ||
अथ श्रीमहावीरस्वामी पूर्वोक्ताऽष्टचत्वारिंशत्प्रश्नानामुत्तराणि श्री गौतम गणधरं प्रति कथयति । तत्र प्रथमप्रश्नः यथा
For Private And Personal Use Only
****************
प्रथममश्नः ॥
५॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141