Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥५८॥ | एकविंशतितमप्रश्न:॥ 器帶紫藤茶器茶器蒸端發器蓋器器器蒸發器鑑識器 प्रकटीभूयोपवनोपेतमेकस्तम्भान्वितं धवलगृहं कृतवान् । तस्योपवने सर्वर्तुसंभवानि सकलानि फलानि सर्वदैव लभ्यन्ते । ___अथ तस्मिन्नवसरे तत्र नगरे एकश्चाण्डालो वसति । तस्य भार्याया अकाले आम्रफलभक्षणदोहदः समुत्पन्नो गर्भप भावात् । तदा तेन चाण्डालेन स्वकीयाकर्षिणीविद्यारलेन तस्य देवनिर्मितस्योपवनस्य मध्यादाम्रवृक्षशाखायां नामयित्वा | तत आम्रफलं च गृहीत्वा निजभार्याया दोहदः पूरितः । चाण्डालस्पर्शस्य छोतिकरणात् स आम्रवृक्षः शुष्कीभूतः। प्रभातसमये राज्ञा स वृत्तान्तो ज्ञातः । अभयकुमारमाहूय प्रोक्तम्-" त्वमस्याम्रफलस्य चौरं शोधय ?" ततोऽभयकुमारः सर्वान्नगरजनानाहूय एकायाः कन्यकायाः कथामित्थं कथयितुं लग्नः एकस्मिन् ग्रामे काचिदेका वणिक्कन्यका द्वादशवापिका कुमारिका एकस्मादारामात्फलपुष्पाणि चोरयित्वा प्रत्यहं। | कामदेवस्य पूजनं करोति । अथैकदा आरामिकेण पुष्पाणि गृह्णन्ती सा कन्या गृहीता, भोगाय च तस्याः प्रार्थनां कर्तु लमः। तदा त्योक्तम्-'भो आगमिक! यदाहं परिणयिष्यामि तदा प्रथममहं तब समीपे समागमिष्यामि" । तदाऽरामिकेण तद्वचनं स्वीकृत्य सा मुक्ता । क्रमेण च सा निजगृहं प्राप्ता । ____ अथ कतिचिदिवसानन्तरं सा कन्या तत्पित्रा केनचिधवा सह परिणायिता । तस्यां रात्रौ सा निजवृत्तान्तं स्वभत्रै निवेद्य तस्याज्ञां चादायारामिकस्य पाश्व गन्तुं मार्गे चलिता । पथि तस्याः केचिच्चौरा मिलिताः । तया तेभ्योऽपि निजवृत्तान्तो निरूपितः। तदा तैरपि मुक्ता पथ्यग्रे चचाल । इतस्तस्याः पथि राक्षसा मिलिताः। राक्षसैरपि तस्याः सत्यं वृत्तान्तं श्रुत्वा सा मुक्ता । क्रमेणारामिकपाचे वाटिकामध्ये सा समागता। तदा तामागच्छन्तीं दृष्ट्वा स तत उत्थाय तां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141