Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ॥८८॥ एकप्रिंशतमप्रश्नः। 张继柴柴张继张继聪樂蒂蒂端游離端器染器聯带聯聯聯聯驗帶 पुत्र्यासीत् । सापि कर्मवशात्कुब्जा वर्तते । एकदा तस्य गृहे एको नैमित्तिकः समागतः । तेन नैमित्तिकेन स्वनिमित्तज्ञानेन तस्मै धनश्रेष्टिने कथितम्-" गृहस्वामिन् ! यो नर इमां धनश्रियं परिणेष्यति स नगरश्रेष्ठी भविष्यति । अथेदृशीं वातां श्रुत्वा धनपालनामा कश्चियवहारी धनश्रियं मार्गयामास । तदा तस्याः पित्रोक्तम्-“वरं इमां धनश्रियमहं दास्यामि, कुब्जस्य धनदत्तस्य चेमा कुब्जां कन्यां दास्यामि । एवं द्वयोः कृते तेनैकमेव लग्न गृहीतम् । परं सा धनश्रीर्धनदत्तमेव वाञ्छति । तेन तया धनश्रिया तन्मनोरथपूर्वकमेको यक्ष आराधितः । तदा सन्तुष्टेन यक्षेण तस्यै प्रोक्तम्-" लग्नसमयेऽहं सर्वेषां जनानां दृष्टिबन्धं करिष्यामि येन धनदत्तेन सह तव पाणिग्रहणं भविष्यति " । तत् श्रुत्वा सा धनश्रीदृष्टा, यक्षश्चैवं तस्यै वरो दत्वाऽदृश्यो जातः । ततो लग्नदिने यक्षेण धनश्रियो धनदत्तेन सह सम्बन्धः कारितः, कुब्जायाश्च धनपालेन सह सम्बन्धः कारितः। एवं तौ द्वावपि परिणीय ततो निर्गतौ । धनदत्तस्तु धनश्रियं दृष्ट्वा हृष्टः, परं धनपालो निजां कुब्जां स्त्रियं दृष्ट्वा मनस्यतीव दुनः । अथ धनपालो धनदत्तं प्रति वक्ति-" त्वयेयं या धनश्रीः परिणीता सा मामकीना भार्याऽस्ति । तव भार्या नास्ति। ततस्तां मम प्रतियच्छ । चेत्वं न दास्यसि तदाहं राज्ञोऽग्रे यास्यामि " तत् श्रुत्वा धनदत्तेन कथितम्-“सा तु मम भार्याऽस्ति, न तब, सा मां परिणीता" इति परस्परं कलहं कुर्वन्तौ तौ राज्ञोऽग्रे गतौ । राज्ञा तौ द्वावपि तयोगुहे प्रेष | यित्वा धनश्रीराकारिता, पृष्टं च राज्ञा तस्यै-" हे धनश्रि! अयं विनिमयः केन कृतः ? त्वं सत्यं वद"। तदा धन 张张蒂張器樂器器樂器樂器迷梁柴然界游樂器 ||८८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141