Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥१०२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यो अनाथ विहार, अम घर वासी जीमीये ॥१॥" तत् श्रुत्वा मुनिराह - ' किमहं भिक्षार्थमन्यत्र गच्छामि ? तदा वध्वा कथितम् -' यथोचितं कुरुत । ' तदा मुनिरन्यत्र गतः । श्रेष्टिनैतत्सर्वं श्रुतम् । ततः श्रेष्टिना निजवधूमाकार्य पृष्टम् - " हे वधु ! त्वया मुनये ( एवं ) किमुक्तं तद्वद १ " अथ सा वदति - "मया सत्यमुक्तं, यथा-भो चेलण ! अयं तव समयो नास्ति, अस्मिन् लघुत्रयसि त्वया दीक्षा कथं गृहीता ? " तदा तेन साधुनोक्तम्- " हे धर्मिणि ! वारं वेलां न जानामि, अयं संसारोsसारः, ये दिवसा यान्ति ते नायान्ति, अतो मया दीक्षा गृहीता ।" तदा मयोक्तम् - " अस्माकं गृहे वासिभोजनमस्ति । " तत् श्रुत्वा श्रेष्टिनोक्तम्- " हे वधु ! स्वयाऽस्माकं गृहे वासिभोजनं कथं ज्ञातं १ यतोऽस्मद्गृहे प्रत्यहं नवीन रस भवति, ततस्त्वयेदं वचः कथं प्रोच्यते ? " तदा वध्वा प्रोक्तम्- " मया सत्यमेवोक्तमस्ति, भवद्भिः पूर्वभवे दानं दत्तं एतत्पुण्यमाहात्म्यतश्च भवतामेतावती ऋद्धिः प्राप्तास्ति । एवं पूर्वभवोपार्जिता लक्ष्मीस्त्वया भुज्यते । अथ च किमपि चेदिह भवे भवता दानं न दीयते तर्ह्यग्रेतनभवे किं भोक्ष्यसे ?" इति वध्वा वचः श्रुत्वा स श्रेष्टी हृष्टः सन् तां sai वधूं प्रति सर्वगृहभारं समर्पयामास । तां च वृद्धां कृत्वा स्थापयामास । अथ श्रेष्टिनो दानं दातुमिच्छा जाता । ततोऽसौ सुपात्रे दानं वितरति पुण्यं च करोति । इतस्तस्य प्रेमलाभार्याया दत्ताख्य एकः पुत्रो जातः परं स हीनांगोऽभूत् । यौवनं प्राप्तं तं पुत्रं प्रति लोका इसन्ति । श्रेष्टिना वैद्यानाकार्य तस्य तैलमर्दनादिवत्र उपचाराः कृताः, परं तस्य गुणो न जातः । इतस्तत्र विनिर्मार्थं समागतः । तं मुनिं वन्दित्वा श्रेष्ठी पृच्छति - " हे मुनीन्द्र ! अस्य मे पुत्रस्योषधं वद १ " For Private And Personal Use Only सप्तत्रिंशत्तमप्रश्नः ॥ ॥१०२॥

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141