Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा । ॥१२२॥
सप्तचत्वारिंशत्तमप्रश्नः॥
子染带染密密涨张继游游染染染带染染带染带染形密密密密
कर्म नास्ति । यत एकस्य दृषद उपरि विष्टा क्रियते, द्वितीयश्चेदृगेव दृषत्पुष्पादिभिः पूज्यते, अतो जपतपोऽनुष्टानादि सर्वमपि निष्फलमेव " इत्युक्त्वा स सूरः स्थिरीभृतः । तदा स शिष्यो वदति-“हे पूर! आत्माऽस्त्येव स्वसंवेद्यत्वात्,
चेदात्मा न भवेत्तर्हि अहं सुखी, अहं दुःखी इत्यादि सुखदुःखं को जानाति ? पुनस्त्वयोक्तं यत्पञ्चभूतेभ्यश्चैतन्यशक्तिः | प्रजायते, तदपि तव वचनमसत्यमेव, यतस्ते पञ्चापि भूता अचेतनाः सन्ति, ततोऽचेतनेभ्यः पदार्थेभ्यश्चैतन्यशक्तिः कथं प्रजायते ? अत आत्मा अस्त्येव । पुनरेको दुःखी, एकश्च सुखी, एको दासः, एकश्च स्वामी, तत्सर्वं पूर्वकृतकर्मानुसारेणैव जायते, अतः कर्माप्यस्त्येव । ततोऽशुभकर्मणां क्षयकृते तपःसंयमादिक्रिया युज्यते एव । पुनधर्माधर्मस्य फलमिह परलोकेऽपि च ज्ञायते, अतो धर्मो विद्यत एव । तस्मात्कारणावं कदाग्रहं मुश्च ? " एवमुक्तेनापि सूरेण यदा निज. कदाग्रहो न मुक्तस्तदा राजा त सूर निजनगरानिष्कासयामास । एवं स सूरो बहुसंसारं भ्रमिष्यति । अथ स द्वितीयो वीरश्राद्ध आयुःक्षये मृत्वा देवलोके समुत्पन्नः, पश्चान्मनुष्यभवं प्राप्य स च मोक्षे यास्यति ।
॥इति सूरवीरयोः कथा ।। अथाष्टाचत्वारिंशत्तमप्रश्नोत्तरमाह--
अष्टाचत्वारिंशप्रश्न:-(श्रीगौतमस्वामी पृच्छति-हे कृपावतार ! हे जगत्रयाधार ! हे करुणासागर ! केन कारणेन जीवः संसारसागरं तरित्वा सिद्धिपुरीं प्राप्नोति ? ४८)
उत्तर:--(परमकारुणिकः श्रीवीरप्रभुः कथयति-हे गौतम !)
樂盛蒸發密密密密整密继落染染染亲张密密聯张晓强路邊器,
॥१२२॥
For Private And Personal Use Only

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141