Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 136
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22% श्रीगौतम पृष्छा ॥ ॥१२४॥ अर्थकदा राज्ञाऽभयकुमारायोक्तम्-“ अद्याहं चेल्लणाराझ्या सह श्रीवीरं वन्दितुं गच्छामि । त्वया तत्रैव स्थेयम् । अस्माकमाज्ञां विना त्वया वीरसमीपे नैव गन्तव्यम् ।” अभयकुमारेणापि तद्वचोऽङ्गीकृतम् । अथ राजा चेल्लणया सहितः श्रीबीरं वन्दित्वा धर्म च श्रुत्वा सन्ध्याकाले पश्चाद्वलित.। अथ तस्मिन् शीतकाले मार्गे समागच्छन्त्या चेल्लणाराश्यकस्य सरसस्तीरे एको निर्वस्त्रः साधुः कायोत्सर्गध्यानस्थो दृष्टः । तं दृष्ट्वा राश्या चिन्तितम्-"अहो धन्योऽयं मुनिर्य एवं दुःकर परीष अष्टचत्वारिशचमप्रश्न:॥ सहते।" *******88822288006208 ___ अथ क्रमेण राज्ञी नृपेण सह गृहे समागत्य शध्यायां सुप्ता । निद्रावशतल्लणाया एको हस्तोऽनाच्छादितो बभूव । अतीव शीतेन च तस्याः स हस्तोऽप्यतीव शीतलीभूतः । कियत्कालानन्तरं सा राज्ञी जागृता सती तं निजहस्तं वस्त्रेणाच्छादयामास । तस्मिन् समये सा चेल्लणा राज्ञी मनसि तं कायोत्सर्गस्थं मुनि स्मृत्वा स्मृत्वा स्वमुखेनोच्चैः स्वरेण जगाद-" अहो अस्मिन् शीतकाले स निर्वस्त्रः किं करिष्यति ?" अथ तस्या ईदृशः शब्दः श्रेणिकराज्ञा श्रुतः । तदा तेन हदि चिन्तितम्-'नूनमियं मम पट्टराज्ञी असती ज्ञायते, अस्या हृदयेशुना कोऽप्य यः पुरुषो वसति, यमियं पुनः | | पुनः स्मरति ।' अथ प्रभातेऽभयकुमारो यदा राजानं नमस्कतु समागतस्तदा राज्ञा तं प्रतीत्यादिष्टम्-" भो अभयकुमार! एतत्सर्व| मन्तःपुरं त्वया ज्वालनीयम्" इति कथयित्वा राजा स्वयं तद्विषये श्रीबीरं प्रष्टुं गतः। तत्र गत्वा प्रभुं वन्दित्वा स १ अहीं जिनकल्पी अने स्थविरकल्पीनु विस्तारथी वर्णन करबु. 柴部部: 染整张晓晓张继染強聯婆盛柴柴柴強聯碎晚继柴柴柴 ॥१२४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141