Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ।। १२५ ।। ***** ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृच्छति - " हे भगवन् ! सा मम राज्ञी वेल्लणा सत्यस्ति वाऽसत्यस्ति ? " तदा भगवतोक्तम् - "हे राजन् ! चेटकराज्ञः सप्तापि पुत्र्यः सत्यः सन्ति ।” इति श्रुत्वा राजा पुनः पृच्छति - " हे भगवन् ! तर्हि अद्य रात्रौ वेल्लणया राइयैवं कथं जल्पितम् ? " 'तदा भगवता सर्वमपि तद्वृत्तान्तं कथयित्वा तस्य सन्देहो दूरीकृतः । तदा राजा शीघ्रमेव ततः पश्चा इलितः । अथात्राभयकुमारेण निजबुद्धधान्तःपुरसमीपस्थमेकं जीर्णं गृहं प्रज्वालितम् । ततः स्वयं च राज्ञः सन्मुखं समायातः । तदा राज्ञा पृष्टम् - " हे अभयकुमार ! त्वया सर्वमन्तःपुरं प्रज्वालितं वा किम् ?” तदाऽभय कुमारेणोक्तम्- “ मया सर्व कार्यं कृतं, अधुनास्ति ममाज्ञा ? गच्छाम्यहं श्रीवीरमभुसमीपे ।" राज्ञापि संभ्रमवशात्तस्मै आज्ञा दता । शीघ्रमेव श्री अभयकुमारोऽपि श्रीवीरप्रसमीपे गत्वा दीक्षां जग्राह । अथ गृहागतो राजा सर्वमप्यन्तःपुरं समाधियुक्तं दृष्ट्वा दृष्टः । पश्चात्स शीघ्रमेव श्रीवीरप्रभोः समवसरणे समागत्याभयकुमारं प्रति कथयामास " हे पुत्र । त्वं पुनर्गृहे समागच्छ । " तदाभयकुमारेणोक्तम्- " हे तात ! मया भवदाशयैव दीक्षा गृहीताऽस्ति ” । ततः श्रेणिकराजा प्रभुं चाभयकुमारादीन् साधुभत्वा स्वापराधं च क्षारयित्वा गृहे समागतः । अथाभयकुमारः शुद्धमनसा ज्ञानदर्शनचरित्रात्मकं रत्नत्रयं सम्यगाराध्य स्वायुःक्षये सर्वार्थसिद्धौ जगाम । एकावतारानन्तरं च स माक्षे यास्यति । ॥ इत्यभयकुमारकथा सम्पूर्णा || For Private And Personal Use Only 麥豬豬豬豬番號雜雜雜號器 अष्टाचत्वा ॐ रिंशत्तम प्रश्नः ॥ ******* ॥ १२५॥

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141