Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीगौतम पृच्छा |
॥१२३॥
g
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाथा -जो निम्मलनाणचरित-दंसणेहिं विभूसियसरीरो । सो संसारं तिरिउँ सिद्धिपुरं पावए पुरिसो ॥ ६२ ॥
व्याख्या - यः पुरुषो निर्मलज्ञानदर्शनचारित्रैः संयुक्तो भवति स संसारसमुद्रं तरित्वा स्तोककालेन मोक्षं गच्छति, अभयकुमारवत् ।। ६२ ।।
अथ तस्याभयकुमारस्य सम्बन्धमाह -
मगधदेशे राजगृहनगर्यां श्रेणिकनामा राजा राज्यं करोति, तस्य राज्ञो वृद्धः पुत्रश्चतुर्बुद्धि निधानः श्रीअभयकुमाराभिastra | भयकुमारं राज्ययोग्यं ज्ञात्वा तस्मै स्वराज्यं समर्पयितुं वाञ्छति, परं स पापभीत्या राज्यं न गृह्णाति । अथ तस्मिन्नवसरे राजगृहनगरे गुणशीलाभिधे चैत्ये श्रीमहावीरः समवसृतः । तं वन्दितुमभयकुमारस्तत्र गतः । तत्रोपविश्य धर्मेोपदेशं च श्रुत्वाभयकुमारः श्रीवीरप्रभुं प्रति पृच्छति - हे भगवन्नन्तिमो राजर्षिः कः भविष्यति १ श्रीवीर आह-" हे अभयकुमार ! अन्तिमराजर्षिरुदायिनामा राजा भविष्यति । एवं श्रीवीरमुखात् श्रुत्वा उदायिराज्ञा दीक्षा गृहीता । तदा श्री वीरेणोक्तमशः कोऽपि राजा दीक्षां न गृहिष्यति ।
तदाऽभयकुमारः १ स्वपरिणामिक्या बुद्ध्या चिन्तयति – “ अद्याहं पितुराग्रहेणापि राज्यं न लास्यामि, यतो राज्यग्रहणानन्तरं मे दीक्षा न भविष्यति " । इति चिन्तयन् स गृहे समागतः । राज्ञापि तस्य दीक्षामनोरथो ज्ञातः ।
१ अहीं बुद्धिना चार भेदोनु ं वर्णन करवु
For Private And Personal Use Only
अष्टाचत्वा रिंशत्तमप्रश्नः ॥
॥ १२३ ॥

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141