Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥
॥ ११६ ॥
*****
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेरितोऽपि श्रेष्टी न क्षुब्धः, तदा देवी हृष्टा जाता, कथयामास च - " भो श्रेष्टिन् ! नूनं त्वं धन्योऽसि, कृतपुण्योऽसि, मयैवं तव परीक्षा कृता । धर्मे दृढचित्तत्वात्तव योग्य: पुत्रो भविष्यति । त्वयापि तस्य पुत्रस्याभिधानं जिनदन्त इति विधेयम् ।" इत्युक्त्वा सा देव्यदृश्या जाता ।
अथ कतिचिदिवसानन्तरं तस्य मनोहरः पुत्रो जातः । चन्दनश्रेष्टिना च महोत्सवपूर्वकं तस्य जिनदत्त इत्यभिधानं कृतम् । पञ्चवर्षाणि यावत्तं लालयित्वा पिनास पाठितः । एवं तेन पुत्रेण सर्वा अपि विद्याः कलाच शिक्षिताः । क्रमेण स यौवनं प्राप्तः । तदा पित्रा कुलीना योग्या च कन्या तस्मै परिणायिता । एवं स जिनदत्तः पितुर्वल्लभो नोरोगी च संजातः । स जिनदत्तो नित्यं देवान् पूजयति ।
इतो वनारामे कश्चिद् ज्ञानी गुरुः समागतः । तदा पुत्रसहितश्चन्दनस्तं वन्दितुं गतः । तत्र धर्मोपदेशश्रवणानन्तरं चन्दनश्रेष्टी गुरुं पृच्छति – “हे भगवन् ! ममायं जिनदत्ताख्यः पुत्रो नीरोगी सुखी च केन कर्मणा जातः ?” तदा गुरुवदति - " स्वं सावधानतया शृणु
अस्मिन्नेव नगरे धरणनामा वणिगभूत् । तस्य च साधारणाख्यः पुत्रोऽभूत् । स पापं विना वाणिज्यं करोति । पुनः पाशबद्धान् मृगबक तित्तिरप्रमुखान् जीवान्मोचयति, तथैव देवगुरुसंघानां भक्तिं करोति । श्रीशत्रुञ्जयममुखतीर्थानां यात्रां १ आरम्भाणां निवृत्तिर्द्रविणसफलता संघवात्सल्यमुचैर्नर्मिल्यं दर्शनस्य प्रणयिजनहितं जीर्ण चैत्यादिकृत्यम् | तीर्थोन्नत्यप्रभाव जिनवचनकृतिः तीर्थ कर्म कृत्यम्, सिद्धेरासन्नभावः सुरनरपदवी तीर्थयात्राफलानि ॥ १ ॥ अहीं शत्रुंजय वगेरे तीर्थोनी यात्रा संबन्धी वर्णन करवुं ॥
For Private And Personal Use Only
*
चतुश्चत्वा रिंशमनः ॥
॥ ११६॥

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141