Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥११८॥ NE98089892288 पश्चचत्वारिशप्रश्नः॥ | पुनर्यस्य सातवेदनीयं कर्म स्तोकतरं भवति, कुटुम्बस्य च यो मूच्छां करोति, स जीवो मृत्वैकेन्द्रियेषुत्पद्यते, बहुकालं च संसारे भ्रमति, मोहनबत् ॥ ५९ ॥ तस्य कथा प्रोच्यते महीसारनगरे मोहनदासाख्यो वणिग्वसति, तस्य मोहनदासोति नाम्नी भार्या वर्तते। स मोहनदासो महाकृपणः सन् पित्रोपार्जितं लक्ष्मी भुनक्ति, दिवसे केवलमेकबारमेव रूक्षमाहारमत्ति, पुनरसौ चौरभीत्या निजधनं भूमौ क्षिप्त्वा रक्षति, स्वयं च | रात्रौ तस्य रक्षां करोति, परं रात्रौ सुखं न शेते । नित्यमधीतानि स्थूलानि मलिनानि च वस्त्राणि स धारयति । कदापि दानं न ददाति । लोभवशाच्च स गुणवतः स्वजनानपि नोपलक्षयति । चेकश्चिद्याचकः सन्मुखं मिलति तदा स निजमुख वक्रीकृत्य प्रयाति, परं तस्य याचकस्य सन्मुखमपि न विलोकयति । उक्तं च-" किसु करेरे कृपण वखाण, नवि ओलखे आब्या घरजाण । ए तलमां नहि तेल लगार, जे एहने वांछे ते गमार ॥१॥" अथ क्रमेण तस्यैकः पुत्रो बभूव । तस्य च लक्ष्मण इति नाम प्रतिष्टितम् । मोहवशेन च स तं निजपुत्र हस्तादपि न मुञ्चति । अथ बाल्यकाले गते सति स पुत्रो विवेकी बुद्धिमान् चतुरश्च संजातः । एवं स निजपितुर्गुणाद्विपरीतोऽभूत् । स लक्ष्मणः सदा सप्तक्षेत्रेषु धनव्ययं कर्तुं लग्नः । तदा तस्य पित्रोक्तम्-“हे वत्स! मया बहुदुःखेनैव धनमुपार्जितम स्ति, तद्धनं त्वं कथं निरर्थकं व्ययसि ?" तदा पुत्रेणोक्तम्-" हे तात! दान ददतां जनानां धन कदापि क्षयति । उक्तं च'देहि दानं सुपात्रेभ्यो, ददन्न क्षीयते धनम् । कूपारामगवादीनां, ददतामेव संपदः ॥१॥' यया कूरस्य नीरं, आरामात्फ १दाता दाता मरी गये, रह गये मक्खोचूस । लैने देने को कुछ नही, खालो ठोके ठूस ।। 2 8898288 ॥११॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141