Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रयश्चत्वारिंशप्रश्नः।।
श्री गौतम-|| रहितो दुर्भगश्च केनापि प्रकारेण तत्र समवसरणे समागतः । लोकास्तं दृष्ट्वा निन्दन्ति । पृच्छा । तं दृष्ट्वा श्रीगौतमो वीरप्रभुं प्रति पृच्छति-" हे भगवन् ! अनेन पुरुषेण पूर्वभवे बहुविधानि पापानि कृतानि भवेयुः, ॥११३॥
येनायमीदृशः कुष्टरोगी जातोऽस्ति, लोकाश्च तं दृष्ट्वा कुत्सां कुर्वन्ति ।” तत् श्रुत्वा श्रीवीरः कथयति-" हे गौतम ! त्वमतोऽप्यधिकमाश्चर्य शृणु
अस्मिन्नेव ग्रामे एको राजपुत्रोऽस्ति । सोऽतीवदुःखी बधिरः पुनर्नपुंसकश्चास्ति । तथैव तस्य द्वौ हस्तौ पादौ चापि न सन्ति । तस्य शरीरेऽष्टौ नाडिका मध्ये वहन्ति । अष्ट च नाडयः शरीराद् बहिर्वहन्ति । पुनस्तस्याभ्यो नाडीभ्यो रक्तादि वहन्ति । तस्य शरीरान्महादुर्गन्धः प्रादुर्भवति । एवं स इहैव नरकस्य दुःखान्यनुभवन्ति ।
तत् श्रुत्वा गौतमस्य हृदि तं दृष्टुं कौतुकमुत्पन्नम् । तदा भगवता तस्मै प्रोक्तम्-" हे गौतम ! चेत्तव मनसि कौतुकमस्ति, तर्हि त्वं तत्र याहि ? तं च पश्य ?" एवं श्रीवीरस्यादेशाद्गौतमो राज्ञो गृहे गतः । गौतममागतं दृष्ट्वा नृपराज्यौ हृष्टे । ताभ्यां कथितम्-" हे भगवन्नध युष्माकमत्रागमनेनास्माकं महद्भाग्यं प्रकटीभूतम् ।" अथ गौतमः प्राह-"हे राजन् ! अहमत्र तव पुत्रदर्शनार्थमागतोऽस्मि ।" तदा भूमिगृहस्थितोऽसौ पुत्रस्तया दर्शितः । गौतमस्तं तथास्थं दृष्ट्वाऽतीव निर्विष्णः सन् श्रीवीरसमीपे समागतः । प्रभुं प्रति च पृष्टवान्-" हे भगवन् ! अनेन मृगापुत्रेणैवंविधं कि पापं कृतमस्ति ? येनायमेवंविधं दुःखभाग्जातोऽस्ति ।" तदा प्रभुः कथयति-"भो गौतम ! अस्य सम्बन्धं शृणु
शतद्वारनगरे नरपतिराजा वर्तते । तस्यैको विजयवर्द्धननामा मन्त्री विद्यते । स पञ्चशतग्रामाणामधिकारी राज्ञा कृतः।
蒂整带密聯张晓聯游染密蒂蒂染染密密密举染蒂张继聪
张张继夢:聯強強強強聯強強強強強聯蒂強聯聯礎:鄧強盛藥
॥११३॥
For Private And Personal Use Only

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141