Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 116
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१०४॥ 潍柴柴柴發聯發盛器盛染整器器帶柴聯柴柴费染器猫聽說幾號 गाथा-संजमजुआण गुणवं-तयाण सावण सीलकलियाणं । मूओ अवरणवाई, टुटो पदह्रिघाएणं ॥५४॥ व्याख्या-यः पुरुषः संयमयुक्तानां पुनगुणवतां पुनः शीलकलितानां च साधूनामवर्णवादं वदति, स भवान्तरे मृको ॐ अष्टत्रिंशत्तबोबडो भवति, पुनर्यः पुरुषः साधोः पादप्रहारं ददाति सोऽग्निशर्मावत् टुंटको भवति । अस्य कथा कथ्यते मएकोनचवडोद्रानगरे चतुर्दशविद्यानिधानो देवशमा ब्राह्मणो वसति । तस्याग्निशर्माभिधः पुत्रोऽस्ति । सोऽपि महाविद्यावान् वर्तते । त्वारिंशत्तम | परं स साधूनां निन्दां करोति, मनसि च गर्व वहति । धर्मवता गुणवतां च दोषं कथयति । पित्रा निवारितोऽपि स तां प्रश्नौ ॥ निजचेष्टां न मुञ्चति । यतः-दुग्धेन प्रक्षालितोऽपि काक उज्ज्वलत्वं न प्रयाति, तद्वत्सोऽपि निजस्वभावं न मुञ्चति । इतस्तस्मिन् समये कश्चिद् ज्ञानी साधुर्बहुपरिवारेण सहितस्तत्र समवसृतः । नागरिकजनास्तं वन्दितुं समागताः । एवं तस्य साधोर्महिमानं दृष्ट्वा सोऽग्निशर्मा निजहृदि अत्यन्तं क्रोधं पामोति, लोकानां पुरश्च कथयति-" एषां पाखण्डिनां सेवाकरणेन युष्माकं को लाभो भविष्यति ? नूनमयं पाखण्डी वर्तते ॥" अथैकदा स विप्रो लोकसमक्षं गुरुभिः सह वादं कर्तुं समागतः । तत्रागत्य च तेनोक्तम्-" भो यूयं शुद्रा अपवित्रा | निर्गुणा वेदवायाः स्थ, अतो यूयं लोकपात्कथं पूजां कारयथ । वयं तु ब्राह्मणा वेदपारगामिनः पवित्राः स्मः। तेषां यो दानपूजादिकं करोति स वैकुण्ठस्थाने गच्छति, किं च वर्णानां ब्राह्मणो गुरुरिति सर्वत्र लोकोक्तिरस्ति । पुनर्वयं यज्ञे १ नाहं स्वर्गफलोपभोगतृषितो नाभ्यार्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्ग यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञ किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥१॥ यूपं कृत्वा पशून् हत्वा, कृत्या रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग, नरके केन गम्यते ॥२॥ यावन्ति रोमकूपानि, पशुगात्रेषु भारत ! तावन्ति वर्षसहस्राणि, पच्यन्ते नरकाऽवनौ ॥३॥ 晚佛能够继聪聯晓驗柴燃烧带聯發柴柴聯聚佛晓強強聯發 ॥श For Private And Personal Use Only

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141