Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतमपृच्छा ॥ ॥१०३॥ www.kobatirth.org तदा मुनिनोक्तम् - " जीवस्य द्विधा रोगो भवति, द्रव्यरोगो भावरोगश्च । तत्र प्रथमरोगस्य प्रतीकारं वैद्रा जानन्ति, द्वितीयोगस्य प्रतीकारं तु मम गुरवो जानन्ति । ते मम गुरवश्च वनमध्ये सन्ति । अतस्त्वं तत्र गत्वा तं प्रति रोगोपायं पृच्छ ।” तदा श्रेष्टी तत्र गत्वा मुनिं वन्दित्वा पृच्छति - " भो गुरो ! मम दत्ताख्यः पुत्रोऽङ्गहीनो जातोऽस्ति, तस्य कारणं वद ? द्रव्यरोगो भावरोगश्च कथमुत्पद्यते ? तथैव भावरोगस्य चिकित्साकरणेन किं भावरोगोऽपि प्रयाति ? " Acharya Shri Kailassagarsuri Gyanmandir तत् श्रुत्वा मुनिः प्राह - " तपःसंयम करुणा कायोत्सर्गादिकरणको भावरोगः प्रयाति । तव पुत्रस्यायं द्रव्यरोगो जातोऽयतस्तव पुत्रेण पूर्वभवे लोभवशतो लोकानां वञ्चनं कृतमस्ति । कूटतोलकूटमापकरणेन च तेन व्यवसायः कृतोऽस्ति । सरसवस्तुनि नीरसवस्तुभिः संमेल्य तेन विक्रीतानि सन्ति, ईदृशं तेन पापकर्म कृतमस्ति । पुनरेकवारं तेन मुनये दानं दत्तं तेन पुण्येन स तव पुत्रो जातोऽस्ति । " तत् श्रुखा स दत्तो नियमं गृहीला नमस्कारध्यानपरी मृत्वा देवलोके गतः । अतो भव्यैर्मुग्धानां वञ्चनं न विधेयम् । ॥ इति दत्तकथा समाप्ता ॥ अथाष्ट त्रिंशत्तमैकोनचत्वारिंशत्तमप्रश्नोत्तरमाह - प्रश्नः - ( श्रीगौतम स्वामी पृच्छति - हे जगन्नाथ ! हे कृपासागर ! हे परमात्मन् ! केन कर्मणा जीवो मूको भवति ? ३८ पुनः केन कर्मणा जीवो टुटको भवति १३९ ) उत्तरः- ( तदा कृपालु भगवान् कथयति — हे गौतम ! ) For Private And Personal Use Only *********** ***************** सप्तत्रिंश त्तमप्रश्नः ॥ | ॥ १०३ ॥

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141