Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रा गौतमपृच्छा । ॥९७॥ चतुस्विशत्तम प्रश्नः ॥ 發發發路密密密聯聯验验器夢夢夢遊蹤號強強強強強強器密 ___ अस्मिन् (कियत् ) समये सुनन्दनामा केवली तत्र समवसृतः । तं वन्दितुं सपरिवारो राजा तत्र गतः । पुण्यसारोऽपि निजपितृसहितस्तत्र समायातः । वन्दित्वा च सर्वेऽग्रे स्थिताः, धर्मोपदेशश्रवणानन्तरं धनमित्रस्तं केवलिन पति पृच्छति"हे भगवन् ! अनेन पुण्यसारेण पूर्वभवे किं पुण्यं कृतं, येनेदृशी लक्ष्मीस्तेन लब्धा । पुना राजमानमपि तेन प्राप्तम् ।" तदा गुरुणा प्रोक्तम्-" भो धनमित्र शृणु ! अस्मिन्नेव नगरे धनदत्तनामा कुमारोऽभूत् । तेन धनदत्तेन द्वाविंशत्यभक्ष्याणां तथा रद्वात्रिंशदनन्तकायानां च नियम गृहीतमासीत् । पुनस्तेन सुपात्रे दानं वितीर्णमासीत् तथैव वृद्धानां तेन विनयोऽपि च विहितोऽभूत् । इति तेन सम्य प्रकारेण श्राद्धधर्मः पालितोऽभूत् । कियत्कालानन्तरं स दीक्षां गृहीत्वा श्रुतं च पठित्वा मान्तेऽनशनं विधाय तृतीये देवलोके इन्द्रस्य सामानिकः सुरोऽभूत् । ततश्च च्युत्वायं तव पुत्रः पुण्यसारः स जातः। एवं निजपूर्वभवं श्रुत्वा पुण्यसारो जातिस्मरणं प्राप । ततोऽसौ निजकुटुम्बभारं स्वपुत्रे न्यस्य स्वयं च श्रीसुनन्दकेवलिनः पार्श्व दीक्षां जग्राह । निरतिचारं चारित्रं च प्रपाल्य स देवो जातः । पश्चान्मनुष्यभवं प्राप्य स मोक्षे यास्यति । यतः -जिण पुजे वंदे गुरु, भावे दान दीयंत । पुण्यसार जिम तेह ने, ऋद्धि अचिंति हुंत ॥१॥ ॥ इति पुण्यसारकथा समाप्ता। अथ पञ्चत्रिंशत्तमप्रश्नोत्तरमाह१-२ अहीं २२ अभक्ष्यनु तथा ३२ अनंतकायनु वर्णन करवू. 獲榮盛發蒂蒂张继器蹤器蒸發器整器鉴染染懿蕊密蒸發器 ॥९७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141