Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम - पृच्छा ॥ ९ * ******** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - यः पुरुषो विश्वासिनं जीवं रक्षति पुनरात्मनः सर्वपापस्थानान्यालोचयति, अर्थात्प्रायश्चित्तं गृह्णाति स पुरुषो मृत्वान्यजन्मनि रोगविवर्जितो भवति ॥ ५१ ॥ अत्राट्टणमल्लकथा उज्जयिन्यां नगर्यो जितशत्रुराजा राज्यं करोति, तस्य राज्ञः पार्श्वे एकोsट्टणाख्यो मल्लोऽस्ति । स च बहुकलाurootsfer । अथ सोपारकाभिधनगरे सिंहगिरिनामा राजा राज्यं करोति । स राजा प्रतिवत्सरं महोत्सवं कारयति । तस्य राज्ञः पार्श्वेऽप्येको मल्लोऽस्ति । अथ सोsट्टणमल्लः प्रतिवर्षं सोपारकनगरे समागत्य तस्य राज्ञो मल्लं जयति, तथा च कृत्वा सोऽट्टणमल्लस्तस्य राज्ञः | पार्श्वाद् बहुद्रध्यं समधिगच्छति । अथाऽन्यदा तेन सोपारकराज्ञा चिन्तितस् - " विदेशीयोऽयं मल्लः प्रतिवर्षं मम सभायां समागत्य मदीयं मल्लं जित्वा बहुद्रव्यं प्राप्नोति । मदीयश्च कोऽपि मल्लस्तं न जयति, एतद्वरं न, यतस्तेन मम महत्वहानिः | प्रजायते " । इति विचार्य स कंचिद्बलवन्तं नरं विशोध्य तं मल्लकलां शिक्षितवान् । तस्य च मत्सीमल्ल इति नाम विहितम् । अथ वर्षानन्तरं निर्णीतदिने यदा सोsट्टणमल्लः सोपारके नृपसभायां समागतस्तदा तरुणो नवशिक्षितो मत्सीमल्लस्तं जितवान् । तदा हृष्टेन राज्ञा तस्मै मत्सीमल्लाय बहुद्रव्यदानं दत्तम् । पराजितश्चाष्टणमल्लः पचाद्वलित्वा सौराष्ट्रदेशमध्ये समागतः । इतस्तेनैको हली दृष्टः । स एकेन करेण हलं वाहयति द्वितीयेन च फलद्दीमुत्पाटयति । स हली भोजनाय स्व For Private And Personal Use Only ************** पञ्चत्रिंशत्तमपत्रिंशतमप्रश्नी ॥ ॥९९॥

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141