Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 106
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा ।। ॥९४॥ त्रयस्त्रिंशत्तमप्रश्नः॥ इति तद्वचः श्रुत्वा देवेनोक्तम्-"भो निष्पुण्यक! अत्र नित्यं ममाग्रे स्वर्णमयो मयूरो नृत्यं करिष्यति, एकां च | स्वर्णमयीं पिच्छामत्र मोक्ष्यति, सा त्वया सर्वदा ग्राह्या, परं त्वयाऽन्याः पिच्छा न ग्राह्याः।" अथ स निष्पुण्यको नित्यं तथैव करोति । अथैवं कुर्वतस्तस्य कतिविदिवसाननरमिति कुबुद्धिरुपमा यदहमत्रै काक्येव कियदिनानि तिष्टामि ? इति विचार्य स दुभंगशिरोमणिः प्रभाते नृत्यतो मयूरस्य सर्वानपि पिच्छानाकर्षयितुं लग्नः । तत्क्षणमेव स मयूरः काकरूपो | जातः । देवाधिष्ठितेन तेन काकेन च स चचुप्रहारतो विदारितः । पूर्वेऽपि च ये पिच्छा गृहीता आसन् तेऽपि काकपिच्छाः संजाताः । उक्तं च-'भाग्यानुसारिणी सिद्धिर्बुद्धिः कर्मानुसारिणी । दानानुसारिणी कीर्ति-लक्ष्मीः पुण्यानुसारिणी ॥१॥ उतावल कीजे नही, कीजे काज विनास । मोर सोनानो कागडो, करी हुओ घरदास ॥२॥ अथ स निजात्मानं निन्दयित्वा निजात्मघातं कर्तुं पर्वतोपर्यारूढः, इतस्तत्रैक मुनि दृष्ट्रा स तस्मै प्रोचे-“भो मुने! | मम धनप्राप्त्युपायं वद।" तदा मुनिनोक्तम्-" इह भवे तव भाग्ये धनं नास्ति, यतस्त्वया यो देव आराधितस्तेन देवेनापि | त्वदभाग्यवशान्मयूराकाकः कृतः । त्वया पूर्वभवे दानं न दत्तं, नियमो न पालितः, पुनर्विनयोऽपि न कृतः, अतः कारणादेव त्वं दरिद्री जातः।" इति श्रुत्वा स जातिस्मरणं प्राप्य वैराग्याच दीक्षां गृहीत्वा पुण्यं च कृत्वा स्वर्गमुखभाग्जातः ।। ॥ इति दरिद्रोपरि निःपुण्यककथा समाप्ता ॥ अथ चतुत्रिंशत्तमप्रश्नोत्तरमाहप्रश्न:- (अथ श्रीगौतमस्वामी पृच्छति-हे कृपासागर ! हे करुणानिधे! हे भगवन् ! केन कर्मणा स एव जीवो 柴晓端端端盛號幾號號器鉴幾號號號號聯盛號號號號號蹤器 ॥९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141