________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ।। ॥९४॥
त्रयस्त्रिंशत्तमप्रश्नः॥
इति तद्वचः श्रुत्वा देवेनोक्तम्-"भो निष्पुण्यक! अत्र नित्यं ममाग्रे स्वर्णमयो मयूरो नृत्यं करिष्यति, एकां च | स्वर्णमयीं पिच्छामत्र मोक्ष्यति, सा त्वया सर्वदा ग्राह्या, परं त्वयाऽन्याः पिच्छा न ग्राह्याः।" अथ स निष्पुण्यको नित्यं तथैव करोति । अथैवं कुर्वतस्तस्य कतिविदिवसाननरमिति कुबुद्धिरुपमा यदहमत्रै काक्येव कियदिनानि तिष्टामि ? इति विचार्य स दुभंगशिरोमणिः प्रभाते नृत्यतो मयूरस्य सर्वानपि पिच्छानाकर्षयितुं लग्नः । तत्क्षणमेव स मयूरः काकरूपो | जातः । देवाधिष्ठितेन तेन काकेन च स चचुप्रहारतो विदारितः । पूर्वेऽपि च ये पिच्छा गृहीता आसन् तेऽपि काकपिच्छाः संजाताः । उक्तं च-'भाग्यानुसारिणी सिद्धिर्बुद्धिः कर्मानुसारिणी । दानानुसारिणी कीर्ति-लक्ष्मीः पुण्यानुसारिणी ॥१॥ उतावल कीजे नही, कीजे काज विनास । मोर सोनानो कागडो, करी हुओ घरदास ॥२॥
अथ स निजात्मानं निन्दयित्वा निजात्मघातं कर्तुं पर्वतोपर्यारूढः, इतस्तत्रैक मुनि दृष्ट्रा स तस्मै प्रोचे-“भो मुने! | मम धनप्राप्त्युपायं वद।" तदा मुनिनोक्तम्-" इह भवे तव भाग्ये धनं नास्ति, यतस्त्वया यो देव आराधितस्तेन देवेनापि | त्वदभाग्यवशान्मयूराकाकः कृतः । त्वया पूर्वभवे दानं न दत्तं, नियमो न पालितः, पुनर्विनयोऽपि न कृतः, अतः कारणादेव त्वं दरिद्री जातः।" इति श्रुत्वा स जातिस्मरणं प्राप्य वैराग्याच दीक्षां गृहीत्वा पुण्यं च कृत्वा स्वर्गमुखभाग्जातः ।।
॥ इति दरिद्रोपरि निःपुण्यककथा समाप्ता ॥ अथ चतुत्रिंशत्तमप्रश्नोत्तरमाहप्रश्न:- (अथ श्रीगौतमस्वामी पृच्छति-हे कृपासागर ! हे करुणानिधे! हे भगवन् ! केन कर्मणा स एव जीवो
柴晓端端端盛號幾號號器鉴幾號號號號聯盛號號號號號蹤器
॥९॥
For Private And Personal Use Only