________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा ॥ ॥९५॥
*ERBERe
चतुस्त्रिंशत्त
*मप्रश्नः ।।
**
महदिको भवति ? ३४)
उत्तर:-(तदा श्रीवीरपरमात्मा कथयति-हे गौतम !)
गाथा-जो पुण दायो विणयजुओ, चारित्तगुणसयाइन्नो। सो जणसयविक्खओ, महद्धिओ होइ लोगंमि ॥ ४९ ॥
व्याख्या-यः पुरुषो १दानी विनयी च भवति, पुनर्यश्चारित्रगुणशतेन सहितो भवति, स पुरुषो जगन्मध्ये प्रसिद्धीभूयास्मिन् लोके महर्द्विको भवति, पुण्यसारवत् ॥ ४९ ॥ तस्य कथामाह
साकेतपुरे नगरे भानुनामा राजा राज्यं करोति । तत्र धनाख्यः श्रेष्ठो वर्तते । तस्य धनदत्ताभिधा भार्यास्ति । एकदा सा धनदत्ता रात्रौ स्वप्नमध्ये रत्नभृतं स्वर्णकलशं पश्यति । प्रातरुत्थाय तया निजभर्तारं प्रति स वृत्तान्तो निवेदितो, यथा -" हे स्वामिन् ! मयाद्य रात्रौ स्वप्ने रत्नपूर्णः स्वर्णकलशो दृष्टः, तस्य मम किं फलं भविष्यति ?" तत् श्रुत्वा भर्ना स्वमनसि तत्स्वप्नार्थ विचार्योक्तम्-“हे प्रिये ! एतत्स्वप्नानुसारेण तव भाग्यवान् पुत्रो भविष्यति ।" इति श्रुत्वा सा हृष्टा जाता। क्रमेण नवभिर्मासैस्तस्याः पुत्रोऽभूत् । ततो बर्दापनिकापूर्वकं तस्य पुत्रस्य पुण्यसार इति नाम दत्तम् । क्रमेण स बालः पश्चवार्षिको जातः । तदा पित्रात पण्डितपार्श्वे पाठितः । तेन स महाविद्यावान् कलावांश्च जातः। यौवने च तेन कस्यचित् श्रेष्ठिनः कन्या परिणी, तया समं च पुग्नं भुनक्ति । क्रमेण तस्य पुण्यसारस्यको पुत्रो बभूव ।
१ अहीं चार प्रकारना दाननु, सात पकारना विनयनु तथा दश प्रकारना वैयावच्चनुं वर्णन कर.
验際聯能繼勞聯強強聯验器路端端游離器端端帶聯聯發验路
॥१५॥
For Private And Personal Use Only