________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥९६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथैकदा पुण्यसारो रात्रौ सुप्तोऽस्ति तस्मिन् समये लक्ष्मीदेवतयागत्य तस्मै प्रोक्तम् - " हे पुण्यसार ! प्रातरहं तव गृहे प्रवेशं करिष्यामि " इत्युक्त्वा सा लक्ष्मीरदृश्या जाता । स तु जागरुक एवासीत् । अथ प्रभाते स पुण्यसारो गृहस्य चतुः कोणेषु स्वणभृतांश्चतुः कलशान पश्यति । तदा तेन विचारितम् - " ध्रुवमद्य रात्रौ मया या लक्ष्मीर्दृष्टश सा सत्यैव जाता । अथाहमिमां वार्तामद्य राज्ञे निवेदयिष्यामि, चेदहं तथा न करिष्यामि, तदा कोऽपि दुर्जनवेदिमं वृत्तान्तं राजानं कथयिष्यति तदा महानर्थो भविष्यति ।" इति विचार्य पुण्यसारेण राज्ञः पार्श्वे गत्वा प्रोक्तम्- " हे स्वामिन् ! मम गृहे निधानं प्रकटितमस्ति ।" तत् श्रुत्वा राजा तन्निधानं दृष्टुं तस्य गृहे समागतः दृष्ट्वा च तन्निधानं विस्मयं प्राप्य स्वभाण्डागारे मुक्तवान् । द्वितीयदिने पुण्यसारेण पुनरपि तथैव निधानं स्वगृहे दृष्टं कथितं च तेन राज्ञे । तदा राज्ञापि तथैव तन्निजभा
मुक्तम् । तृतीय दिनेऽपि तथैव पुनर्जातम् । ततः पुण्यसारेण राज्ञे प्रोक्तम्- " हे महाराज ! युष्माकं भाण्डागारमध्ये किन्निधानं जातं तत्पश्यत ?” तदा राज्ञा भाण्डागाराधिपतिमाकार्य कथितम् - " त्वं भाण्डागारात्तानि मुक्तानि निधानान्यत्रानय ? " तदा स भाण्डागारे गत्वा तानि पश्यति, परं तत्रैकमपि तन्निधानं तेन न दृष्टम् । ततो राज्ञोऽग्रे समागत्य तेन तथैवोक्तम् । तदा राज्ञा चिन्तितम् - " मया लोभेनास्य गृहान्निधानं गृहीतं, परं मे भाग्यं विना तन्निधानं मद्भाण्डागारे न तिष्ठति । नूनमेतन्निधानं पुण्यसारस्य भाग्यमध्येऽस्ति, अतोऽहमेनं पुण्यसारं नगर श्रेष्टिनं करिष्यामि " इति विचार्य राज्ञा पुण्यसारायैकां स्वर्णमुद्रिकां वस्त्राणि च दत्वा तं च नगरश्रेष्टिनं विधाय वादित्रनादपुरस्सरं स तस्य गृहे प्रेषितः । एवं स पसारो निजशुभकर्मोदयात्सुखानि भुनक्ति ।
For Private And Personal Use Only
चतुस्त्रिंशतममश्नः ॥
॥९६॥