Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ********** श्रीगौतम अथ श्रेणिक पट्टराझ्या चेल्लणया रत्नकम्बलवार्ता श्रुता । ततस्तयैको रत्नकम्बलो राज्ञः पार्श्वे मार्गितः । तदा राज्ञा ते पृच्छा ॥ ॐ रत्नकम्बलव्यापारिणं पुनराहूय कथितमेकं रत्न कम्बलं मे मूल्येन देहि । व्यवहारिणा प्रोक्तम् - "ते सर्वेऽपि रत्नकम्बला भ ॥६७॥ द्रया मूल्येन गृहीताः । तत् श्रुत्वा राज्ञा भद्रापार्श्वादेको रत्नकम्बलो मार्गितः । तदा भद्रयोक्तम् - " ते रत्नकम्बला मया खण्डशः कृत्वा मम द्वात्रिंशद्वधूभ्यः प्रत्ताः ताभिश्च तैर्निजचरणानि प्रमार्ण्य क्षालमध्ये क्षिप्ताः " । तत् श्रुत्वा विस्मितो राजा शालिभद्रम्य समृद्धिं दृष्टुं तस्य गृहे समागतः । Acharya Shri Kailassagarsuri Gyanmandir तदा भद्रा सप्तभूमिको परिस्थशालिभद्रस्य पार्श्वे गत्वा तं कथयति - " हे वत्स ! त्वं मनाग् नीचैः समागच्छ, अस्माकं राजा श्रेणिकोऽस्मद् गृहे समागतोऽस्ति ।" तदा शालिभद्रस्तं श्रेणिकराजानं किंचित्क्रयाणकं विज्ञाय कथयति -" भो मातस्त्वमेव तत्क्रयाणकमिच्छितमूल्यदानेन गृहाण, तद्विषये तत्र मदागमनस्य किञ्चिदपि प्रयोजनं नास्ति । " तदा भद्रयो क्तम् - " हे पुत्र ! श्रेणिकाभिघं किञ्चित्क्रयाणकं नास्ति परं स श्रेणिकोऽस्मन्नगराधिपतिर्नृपोऽस्ति, अतस्त्वं नीचैरागत्य तस्मै प्रणामं कुरु ।" तदा शालिभद्रस्तद्वचसा नीचैरागत्य नृपाय प्रणामं करोति । हृष्टेन राज्ञा शालिभद्रो निजोत्सवे गृहीतः । परं राज्ञः स्पर्शमसहमान: स व्याकुलीभूतः । तद्विज्ञाय भद्रया नृपं प्रति कथितम् - " हे स्वामिन्नयमतीव सुकुमालः शालिभद्रो भवःस्पर्शन व्याकुलीभवति, अत एनं मुञ्चत ।" अथ नृपेण मुक्तोऽसौ तूर्णे निजसप्तमभूमौ गतः । अथ भद्रया राजा भोजनार्थं निमन्त्र्य तत्र स्थापितः । ततोऽमौ श्रेणिकस्तस्य गृहांगणे स्नानं कर्तुं लग्नः । इतो राज्ञः करांगुलित एका मणिमुद्रिका निःसृत्य गृहकूपिकायां पतिता । तदा राज्ञा भद्रायै प्रोक्तम्- “भो भद्रे ! ममैका मणिमुद्रिका For Private And Personal Use Only ******* चतुर्विंशतितम प्रश्नः ॥ ॥६७॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141