Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥८१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुर्कुटी भूता । पश्चात् शृगाली जाता । ततो मृत्वा गृहगोधा, ततो मुषिका, ततो जलौका पश्चाच्च गणिका जाता । अष्टमे भवे चाण्डाली, नवमे भवे रासभी, दशमे भवे च गौर्जाता । तस्मिन् भवे वनमध्ये गुरुमुखान्नमस्कारमन्त्रं श्रुत्वा तस्य प्रसादान्मनुष्यभवे दुर्गन्धा नाम्नीयं तव पुत्री बभूव । तत् श्रुत्वा दुर्गन्धाया जातिस्मरणं समुत्पन्नम् । तदा दुर्गन्धा निजपूर्वभवं दृष्ट्वा करौ च योजयित्वा पृच्छति - " हे भगवन् ! एतस्माद् दुःखादहं कथं निस्सरामि ? तत्कध्यताम् ।" तदा मुनिभिरुक्तम् - " त्वं दुःखभञ्जनं रोहिण्या व्रतं कुरु ।" तयोक्तम् - " हे भगवन् ! केन विधिनाहं तद् व्रतं करोमि ।" मुनिनोक्तम् - "शृणु, रोहिणीनक्षत्र दिने श्री वासुपूज्यजिनबिम्बं पूजयित्वा सप्तमासाधिकं सप्तवर्षे यावत् उपोषं कुरु । एवं शुभध्यानयुततपःप्रभावात्तव शुभं भविष्यति । पश्चाच्च त्वया तत्तपउद्यापनं विधेयं येन तव सर्वं दुःखं यास्यति, सुगन्धराजवत् । " तत् श्रुत्वा दुर्गन्धा मुनिं पृच्छति - " हे भगवन् ! तस्य सुगन्धराजस्य वृत्तान्तं मयि कृपां विधाय कथयत ।" तदा मुनिर्वदति सिंहपुरे सिंहसेनो राजा, तस्य कनकप्रभाभिधाना राज्ञी वर्तते । तस्य दुर्गन्धाख्यः पुत्रोऽभूत् । स क्रमेण यौवनं प्राप्तः । परं कस्यापि मनसि स न रोचते । एकदा श्रीपद्मप्रभस्तीर्थकरस्तत्रागतः । पद्मप्रभं वन्दित्वाऽसौ निजदुर्गन्धस्वकर्मणो विपाकं पृच्छति तदा श्रीसर्वज्ञप्रभुः कथयति नागोरनगराद् द्वादशे क्रोशे नीलनामा पर्वतोऽस्ति । तस्योपर्येका शिला वर्तते । तत्रैको निर्माक्षपणादि तपः करोति । तत्तपःप्रभावाच्चाखेटकस्याखेटकं निष्फलं याति । तदा स लुब्धकस्तस्य मुनेरुपरीर्ष्या करोति । एकदा स ऋषिः For Private And Personal Use Only L एकोनत्रिंशप्रश्नः ॥ ॥ ८१ ॥

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141