________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥८१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुर्कुटी भूता । पश्चात् शृगाली जाता । ततो मृत्वा गृहगोधा, ततो मुषिका, ततो जलौका पश्चाच्च गणिका जाता । अष्टमे भवे चाण्डाली, नवमे भवे रासभी, दशमे भवे च गौर्जाता । तस्मिन् भवे वनमध्ये गुरुमुखान्नमस्कारमन्त्रं श्रुत्वा तस्य प्रसादान्मनुष्यभवे दुर्गन्धा नाम्नीयं तव पुत्री बभूव ।
तत् श्रुत्वा दुर्गन्धाया जातिस्मरणं समुत्पन्नम् । तदा दुर्गन्धा निजपूर्वभवं दृष्ट्वा करौ च योजयित्वा पृच्छति - " हे भगवन् ! एतस्माद् दुःखादहं कथं निस्सरामि ? तत्कध्यताम् ।" तदा मुनिभिरुक्तम् - " त्वं दुःखभञ्जनं रोहिण्या व्रतं कुरु ।" तयोक्तम् - " हे भगवन् ! केन विधिनाहं तद् व्रतं करोमि ।" मुनिनोक्तम् - "शृणु, रोहिणीनक्षत्र दिने श्री वासुपूज्यजिनबिम्बं पूजयित्वा सप्तमासाधिकं सप्तवर्षे यावत् उपोषं कुरु । एवं शुभध्यानयुततपःप्रभावात्तव शुभं भविष्यति । पश्चाच्च त्वया तत्तपउद्यापनं विधेयं येन तव सर्वं दुःखं यास्यति, सुगन्धराजवत् । " तत् श्रुत्वा दुर्गन्धा मुनिं पृच्छति - " हे भगवन् ! तस्य सुगन्धराजस्य वृत्तान्तं मयि कृपां विधाय कथयत ।" तदा मुनिर्वदति
सिंहपुरे सिंहसेनो राजा, तस्य कनकप्रभाभिधाना राज्ञी वर्तते । तस्य दुर्गन्धाख्यः पुत्रोऽभूत् । स क्रमेण यौवनं प्राप्तः । परं कस्यापि मनसि स न रोचते । एकदा श्रीपद्मप्रभस्तीर्थकरस्तत्रागतः । पद्मप्रभं वन्दित्वाऽसौ निजदुर्गन्धस्वकर्मणो विपाकं पृच्छति तदा श्रीसर्वज्ञप्रभुः कथयति
नागोरनगराद् द्वादशे क्रोशे नीलनामा पर्वतोऽस्ति । तस्योपर्येका शिला वर्तते । तत्रैको निर्माक्षपणादि तपः करोति । तत्तपःप्रभावाच्चाखेटकस्याखेटकं निष्फलं याति । तदा स लुब्धकस्तस्य मुनेरुपरीर्ष्या करोति । एकदा स ऋषिः
For Private And Personal Use Only
L
एकोनत्रिंशप्रश्नः ॥
॥ ८१ ॥