Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*********
श्री गौतम-* पृच्छा ।। ॥६६॥
चतुर्विंशतितमप्रश्न:॥
********
वत्सान् चारयितुं वने ययौ।
अथ तस्य मात्रा धन्नया चिन्तितम्-'अहो मम पुत्रो नित्यमेतावतीं क्षुधां सहते, येनैतावती क्षरेयी तेन भक्षिता' एवं मातृदृष्टिदोषतो जातविमुचिकया स तस्यामेव रात्रौ मृत्वा राजगृहनगर्यो गोभद्र श्रेष्टिनो गृहे भद्राभिधभार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः । रात्रौ स्वप्नमध्ये तया शालिक्षेत्रं दृष्टं, तेन तस्य जन्मानन्तरं पितृभ्यां तस्य 'शालिभद्र' इति नाम दत्तम् । यौवने च पित्रा स द्वात्रिंशत्कन्याभिः सह परिणायितः । ताभिः सह स विषयसुखानि भुनक्ति।
अर्थकदा गौभद्रवेष्ठिना वैराग्यतः स्वमनसि चिन्तितं 'यदयं संसारो जलतरङ्गवल्लोलोऽसारश्वास्ति' इति विचार्य स गुरुसमीपे दीक्षां गृहीत्वा कियत्कालं च चारित्र्यं प्रतिपाल्य मनुष्यायुः संपूर्णीकृत्य मृत्वा देवोऽभूत् । स गोभद्रदेवः पुत्रमोहात्सर्वदा तस्य वधूनां कृते नवनवाभरणवस्त्रभृतात्रयस्त्रिंशत्पेटिका नित्यं स्वर्गा-मुश्चति । एवं स शालिभद्रो विविधान् दिव्यभोगान् सर्वदा भुक्ति, येन तस्य सूर्योद्गमनास्तकालमपि न ज्ञायते । सर्वमपि गृहव्यापारं तस्य माता भदैव करोति ।।
इतः कश्चिद्वैदेशिको नेपालदेशात्सपादलक्षमूल्यान् पोडश रत्नकम्बलान् समानीय तत्र राजगृहे विक्रयार्थ चतुष्पथे सर्वलोकान् प्रति दर्शयामास । परं बहुमूल्यत्वात्तान् कोऽपि न गृह्णाति । श्रेणिकराज्ञापि बहुमूल्यभीतेन ते निजराज्ञीकृतेऽपि न गृहीताः। ___अथ क्रमेण स वैदेशिकः विषण्णः सन् चलन् भद्राया गृहद्वारसमीपे समागतः । तदा भद्रया ते सर्वेऽपि रत्नकम्बला मूल्येन गृहीताः । अर्द्धमआँश्च विभज्य वधूभ्यः प्रदत्ताः । ताभिर्वधूभिश्च तैनिजचरणानि प्रमाय॑ ते गृहखालमध्ये प्रक्षिप्ताः ।
张张黎张张张黎諾器器崇张器器張張器器茶器恭恭器聚號密
**
**
॥१६॥
*
For Private And Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141