Book Title: Gautam Pruccha
Author(s): Purvacharya
Publisher: Indrachand Agarchand Seth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतम पृच्छा ॥ ॥६८॥
*******
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
aiलितो निःसृत्यास्यां कूपिकायां पतितास्ति, ततस्तां निष्कास्य मम पुनः समर्पय ।" तदैका भद्रादिष्टा दासी राजानं कूपिकापार्श्वे समानीय वदति - " हे स्वामिन ! कूपिकास्थेष्वेतेष्वाभरणेषु भवन्मुद्रिकां सम्यक् समुपलक्ष्य यूयं स्वीकुरुत" । तदा तस्यां कूपिकायाममूल्यमाभूषणसमूहं निरीक्ष्य विस्मितो राजा कथमपि निजमुद्रिकां समुपलक्ष्य गृहीतवान् । अथ चमस्कृतो राजा दासीं प्रति पृच्छति - "भो दासि ! एतावन्तीमान्या भूषणानि कस्य सन्ति ? " दास्योक्तम् " हे स्वामिन् ! एतत्सर्वं द्रव्यं शालिभद्रेण निर्मालीकृत्यात्र क्षिप्तमस्ति । अथैवं तस्यर्द्धितो विस्मितो राजा भोजनं कृत्वा स्वस्थाने गतः । अथ तत्र स्थितः शालिभद्रश्चिन्तयति - नूनमहमल्पपुण्य कोऽस्मि, येन ममोपर्यपि राजा वर्तते " इति वैराग्यात् स प्रत्यमेकैकां स्त्रियं त्यजति ।
अथ तस्य शालिभद्रस्यैका भगिनी पूर्व धन्नाख्यव्यवहारिणा परिणीतास्ति । सा निजभ्रातुर्वैराग्यदशां स्मृत्वैकदा रुदितुं लग्ना | तदा स्नानार्थं स्थितेन धन्नेन तां रुदतीं दृष्ट्वा पृष्टम् - "भो प्रिये ! स्वं कथं रोदिषि ? " तदा तथा कथितम् - "मद् भ्राता दीक्षेच्छुः प्रत्यहमेकैकां स्त्रियं त्यजति । तदुदन्तस्मृतितो मे नेत्राभ्यामभ्रूणि गलन्ति । " तत् श्रुत्वा धन्नः कथयति "हे प्रिये ! नूनं तव भ्राता कातरोऽस्ति य एवं रङ्कवत्प्रत्यहमेकैकां स्त्रियं त्यजति, यदि स संविग्नस्तर्हि एकवेलमेव कथं सर्वाः स्त्रियो न त्यजति ? तदा तद्भार्ययोक्तम् - " हे स्वामिन् ! यद्येवं बूथ तर्हि यूयमेव कथं न त्यजथ ? भवतामप्यष्टौ स्त्रियः सन्ति, जगति सर्वेऽपि कथथितुं चतुराः कर्तुं च दुष्करा एव ।। " तत् श्रुत्वा वैराग्यमापन्नेन धन्नेन कथितम् - "हे प्रिये ! स्व दनुमत्याज्यप्रभृति मया सर्वा अपि स्त्रियस्त्यक्ता अतस्त्वमपि दूरे भव" ।
For Private And Personal Use Only
*******
*******
चतु
शतितम
प्रश्नः ॥
॥६८॥

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141