SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ ॥६८॥ ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aiलितो निःसृत्यास्यां कूपिकायां पतितास्ति, ततस्तां निष्कास्य मम पुनः समर्पय ।" तदैका भद्रादिष्टा दासी राजानं कूपिकापार्श्वे समानीय वदति - " हे स्वामिन ! कूपिकास्थेष्वेतेष्वाभरणेषु भवन्मुद्रिकां सम्यक् समुपलक्ष्य यूयं स्वीकुरुत" । तदा तस्यां कूपिकायाममूल्यमाभूषणसमूहं निरीक्ष्य विस्मितो राजा कथमपि निजमुद्रिकां समुपलक्ष्य गृहीतवान् । अथ चमस्कृतो राजा दासीं प्रति पृच्छति - "भो दासि ! एतावन्तीमान्या भूषणानि कस्य सन्ति ? " दास्योक्तम् " हे स्वामिन् ! एतत्सर्वं द्रव्यं शालिभद्रेण निर्मालीकृत्यात्र क्षिप्तमस्ति । अथैवं तस्यर्द्धितो विस्मितो राजा भोजनं कृत्वा स्वस्थाने गतः । अथ तत्र स्थितः शालिभद्रश्चिन्तयति - नूनमहमल्पपुण्य कोऽस्मि, येन ममोपर्यपि राजा वर्तते " इति वैराग्यात् स प्रत्यमेकैकां स्त्रियं त्यजति । अथ तस्य शालिभद्रस्यैका भगिनी पूर्व धन्नाख्यव्यवहारिणा परिणीतास्ति । सा निजभ्रातुर्वैराग्यदशां स्मृत्वैकदा रुदितुं लग्ना | तदा स्नानार्थं स्थितेन धन्नेन तां रुदतीं दृष्ट्वा पृष्टम् - "भो प्रिये ! स्वं कथं रोदिषि ? " तदा तथा कथितम् - "मद् भ्राता दीक्षेच्छुः प्रत्यहमेकैकां स्त्रियं त्यजति । तदुदन्तस्मृतितो मे नेत्राभ्यामभ्रूणि गलन्ति । " तत् श्रुत्वा धन्नः कथयति "हे प्रिये ! नूनं तव भ्राता कातरोऽस्ति य एवं रङ्कवत्प्रत्यहमेकैकां स्त्रियं त्यजति, यदि स संविग्नस्तर्हि एकवेलमेव कथं सर्वाः स्त्रियो न त्यजति ? तदा तद्भार्ययोक्तम् - " हे स्वामिन् ! यद्येवं बूथ तर्हि यूयमेव कथं न त्यजथ ? भवतामप्यष्टौ स्त्रियः सन्ति, जगति सर्वेऽपि कथथितुं चतुराः कर्तुं च दुष्करा एव ।। " तत् श्रुत्वा वैराग्यमापन्नेन धन्नेन कथितम् - "हे प्रिये ! स्व दनुमत्याज्यप्रभृति मया सर्वा अपि स्त्रियस्त्यक्ता अतस्त्वमपि दूरे भव" । For Private And Personal Use Only ******* ******* चतु शतितम प्रश्नः ॥ ॥६८॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy