________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
**********
श्रीगौतम
अथ श्रेणिक पट्टराझ्या चेल्लणया रत्नकम्बलवार्ता श्रुता । ततस्तयैको रत्नकम्बलो राज्ञः पार्श्वे मार्गितः । तदा राज्ञा ते पृच्छा ॥ ॐ रत्नकम्बलव्यापारिणं पुनराहूय कथितमेकं रत्न कम्बलं मे मूल्येन देहि । व्यवहारिणा प्रोक्तम् - "ते सर्वेऽपि रत्नकम्बला भ ॥६७॥ द्रया मूल्येन गृहीताः । तत् श्रुत्वा राज्ञा भद्रापार्श्वादेको रत्नकम्बलो मार्गितः । तदा भद्रयोक्तम् - " ते रत्नकम्बला मया खण्डशः कृत्वा मम द्वात्रिंशद्वधूभ्यः प्रत्ताः ताभिश्च तैर्निजचरणानि प्रमार्ण्य क्षालमध्ये क्षिप्ताः " । तत् श्रुत्वा विस्मितो राजा शालिभद्रम्य समृद्धिं दृष्टुं तस्य गृहे समागतः ।
Acharya Shri Kailassagarsuri Gyanmandir
तदा भद्रा सप्तभूमिको परिस्थशालिभद्रस्य पार्श्वे गत्वा तं कथयति - " हे वत्स ! त्वं मनाग् नीचैः समागच्छ, अस्माकं राजा श्रेणिकोऽस्मद् गृहे समागतोऽस्ति ।" तदा शालिभद्रस्तं श्रेणिकराजानं किंचित्क्रयाणकं विज्ञाय कथयति -" भो मातस्त्वमेव तत्क्रयाणकमिच्छितमूल्यदानेन गृहाण, तद्विषये तत्र मदागमनस्य किञ्चिदपि प्रयोजनं नास्ति । " तदा भद्रयो क्तम् - " हे पुत्र ! श्रेणिकाभिघं किञ्चित्क्रयाणकं नास्ति परं स श्रेणिकोऽस्मन्नगराधिपतिर्नृपोऽस्ति, अतस्त्वं नीचैरागत्य तस्मै प्रणामं कुरु ।" तदा शालिभद्रस्तद्वचसा नीचैरागत्य नृपाय प्रणामं करोति । हृष्टेन राज्ञा शालिभद्रो निजोत्सवे गृहीतः । परं राज्ञः स्पर्शमसहमान: स व्याकुलीभूतः । तद्विज्ञाय भद्रया नृपं प्रति कथितम् - " हे स्वामिन्नयमतीव सुकुमालः शालिभद्रो भवःस्पर्शन व्याकुलीभवति, अत एनं मुञ्चत ।" अथ नृपेण मुक्तोऽसौ तूर्णे निजसप्तमभूमौ गतः ।
अथ भद्रया राजा भोजनार्थं निमन्त्र्य तत्र स्थापितः । ततोऽमौ श्रेणिकस्तस्य गृहांगणे स्नानं कर्तुं लग्नः । इतो राज्ञः करांगुलित एका मणिमुद्रिका निःसृत्य गृहकूपिकायां पतिता । तदा राज्ञा भद्रायै प्रोक्तम्- “भो भद्रे ! ममैका मणिमुद्रिका
For Private And Personal Use Only
*******
चतुर्विंशतितम
प्रश्नः ॥
॥६७॥