SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ********* श्री गौतम-* पृच्छा ।। ॥६६॥ चतुर्विंशतितमप्रश्न:॥ ******** वत्सान् चारयितुं वने ययौ। अथ तस्य मात्रा धन्नया चिन्तितम्-'अहो मम पुत्रो नित्यमेतावतीं क्षुधां सहते, येनैतावती क्षरेयी तेन भक्षिता' एवं मातृदृष्टिदोषतो जातविमुचिकया स तस्यामेव रात्रौ मृत्वा राजगृहनगर्यो गोभद्र श्रेष्टिनो गृहे भद्राभिधभार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः । रात्रौ स्वप्नमध्ये तया शालिक्षेत्रं दृष्टं, तेन तस्य जन्मानन्तरं पितृभ्यां तस्य 'शालिभद्र' इति नाम दत्तम् । यौवने च पित्रा स द्वात्रिंशत्कन्याभिः सह परिणायितः । ताभिः सह स विषयसुखानि भुनक्ति। अर्थकदा गौभद्रवेष्ठिना वैराग्यतः स्वमनसि चिन्तितं 'यदयं संसारो जलतरङ्गवल्लोलोऽसारश्वास्ति' इति विचार्य स गुरुसमीपे दीक्षां गृहीत्वा कियत्कालं च चारित्र्यं प्रतिपाल्य मनुष्यायुः संपूर्णीकृत्य मृत्वा देवोऽभूत् । स गोभद्रदेवः पुत्रमोहात्सर्वदा तस्य वधूनां कृते नवनवाभरणवस्त्रभृतात्रयस्त्रिंशत्पेटिका नित्यं स्वर्गा-मुश्चति । एवं स शालिभद्रो विविधान् दिव्यभोगान् सर्वदा भुक्ति, येन तस्य सूर्योद्गमनास्तकालमपि न ज्ञायते । सर्वमपि गृहव्यापारं तस्य माता भदैव करोति ।। इतः कश्चिद्वैदेशिको नेपालदेशात्सपादलक्षमूल्यान् पोडश रत्नकम्बलान् समानीय तत्र राजगृहे विक्रयार्थ चतुष्पथे सर्वलोकान् प्रति दर्शयामास । परं बहुमूल्यत्वात्तान् कोऽपि न गृह्णाति । श्रेणिकराज्ञापि बहुमूल्यभीतेन ते निजराज्ञीकृतेऽपि न गृहीताः। ___अथ क्रमेण स वैदेशिकः विषण्णः सन् चलन् भद्राया गृहद्वारसमीपे समागतः । तदा भद्रया ते सर्वेऽपि रत्नकम्बला मूल्येन गृहीताः । अर्द्धमआँश्च विभज्य वधूभ्यः प्रदत्ताः । ताभिर्वधूभिश्च तैनिजचरणानि प्रमाय॑ ते गृहखालमध्ये प्रक्षिप्ताः । 张张黎张张张黎諾器器崇张器器張張器器茶器恭恭器聚號密 ** ** ॥१६॥ * For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy