________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
**
*******
चतुर्विशतितमप्रश्न:॥
तस्य पुरुषस्य धनऋद्धिः स्थिरा भवति, शालिभद्रवत् ॥ ४०॥ भी गौतम-*
तत्सम्बन्धमाहपृच्छा ॥
मगधदेशे राजगृहीनगरीसमीपे शालिनामैको ग्रामो वर्तते । तत्र धनाभिधा काचिदेकाऽऽभीरी वसति । तस्याः संगमाभिधः सुतोऽस्ति । स संगमो गोवत्सांश्चारयति । एकदा श्राद्धदिने तेन संगमेन मातुः पार्श्व भक्षणाय खैरेयी मागिता। तदा मात्रोक्तम्--" वत्स ! क्षैरेयीमहं कुतो निष्कामयामि ?" इति कथयित्वा सा रुरोद । तदा तद्गृहपाश्चवर्तिन्यश्चतस्रो वनितास्तत्र समागत्य तस्या रोदनकारणं च विज्ञाय तां प्रति कथयामासुः-“भो धन्ने ! त्वं मा रुदनं कुरु. वयं तभ्यं औरेयीसामग्रीस्यामः" इत्युक्वैक्या दुग्धं, अन्यया शालि, परया च घृतमपरया च शर्करेत्यादिसामग्री दत्ता। तदा औरेयी निष्पाद्य स्थाले च परिवेष्य स्वपुत्राय संगमायोक्तम्-" हे पुत्र ! त्वमिमां औरेयीं भुव" इत्युक्त्वा सा कार्यार्थ परिवेश्मिकगृहे गता । संगमश्च तामुष्णां क्षरेयीं शीतलां करोति ।
इतस्तस्मिन्नवसरे तस्य भाग्यवशात्कश्चिन्मासोपवासो मुनिस्तस्य गृहे पारणकदिवसे आहारार्थ समागतः । तं साधु | | दृष्ट्वा संगमो भव्यभावनयोत्थाय तत्सर्वमपि परमानं तस्मै ददौ । साधोगमनानन्तरं धन्ना स्वगृहान्तरागता । पुत्रस्य पार्श्वे च स्थाली क्षरेयीरहितां निरीक्ष्य सा चिन्तयामास 'नूनमनेन परिवेषिता सकलापि क्षरेयी भक्षिताऽस्ति, अतोऽहमपरां रेयीं तस्य परिवेषयामि' इति विचार्य तया तस्यां स्थाल्यामपरा क्षरेयी परिक्षिप्ता । साक्षरेयी संगमेन भक्षिता । ततोऽसौं
***
磁器装亲亲张张张张张张张张张张张张张张张张张张张张张辦
*
****
॥६५॥
*
*
For Private And Personal Use Only