________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा ।। ॥५८॥
| एकविंशतितमप्रश्न:॥
器帶紫藤茶器茶器蒸端發器蓋器器器蒸發器鑑識器
प्रकटीभूयोपवनोपेतमेकस्तम्भान्वितं धवलगृहं कृतवान् । तस्योपवने सर्वर्तुसंभवानि सकलानि फलानि सर्वदैव लभ्यन्ते । ___अथ तस्मिन्नवसरे तत्र नगरे एकश्चाण्डालो वसति । तस्य भार्याया अकाले आम्रफलभक्षणदोहदः समुत्पन्नो गर्भप भावात् । तदा तेन चाण्डालेन स्वकीयाकर्षिणीविद्यारलेन तस्य देवनिर्मितस्योपवनस्य मध्यादाम्रवृक्षशाखायां नामयित्वा | तत आम्रफलं च गृहीत्वा निजभार्याया दोहदः पूरितः । चाण्डालस्पर्शस्य छोतिकरणात् स आम्रवृक्षः शुष्कीभूतः। प्रभातसमये राज्ञा स वृत्तान्तो ज्ञातः । अभयकुमारमाहूय प्रोक्तम्-" त्वमस्याम्रफलस्य चौरं शोधय ?" ततोऽभयकुमारः सर्वान्नगरजनानाहूय एकायाः कन्यकायाः कथामित्थं कथयितुं लग्नः
एकस्मिन् ग्रामे काचिदेका वणिक्कन्यका द्वादशवापिका कुमारिका एकस्मादारामात्फलपुष्पाणि चोरयित्वा प्रत्यहं। | कामदेवस्य पूजनं करोति । अथैकदा आरामिकेण पुष्पाणि गृह्णन्ती सा कन्या गृहीता, भोगाय च तस्याः प्रार्थनां कर्तु लमः। तदा त्योक्तम्-'भो आगमिक! यदाहं परिणयिष्यामि तदा प्रथममहं तब समीपे समागमिष्यामि" । तदाऽरामिकेण तद्वचनं स्वीकृत्य सा मुक्ता । क्रमेण च सा निजगृहं प्राप्ता । ____ अथ कतिचिदिवसानन्तरं सा कन्या तत्पित्रा केनचिधवा सह परिणायिता । तस्यां रात्रौ सा निजवृत्तान्तं स्वभत्रै निवेद्य तस्याज्ञां चादायारामिकस्य पाश्व गन्तुं मार्गे चलिता । पथि तस्याः केचिच्चौरा मिलिताः । तया तेभ्योऽपि निजवृत्तान्तो निरूपितः। तदा तैरपि मुक्ता पथ्यग्रे चचाल । इतस्तस्याः पथि राक्षसा मिलिताः। राक्षसैरपि तस्याः सत्यं वृत्तान्तं श्रुत्वा सा मुक्ता । क्रमेणारामिकपाचे वाटिकामध्ये सा समागता। तदा तामागच्छन्तीं दृष्ट्वा स तत उत्थाय तां
For Private And Personal Use Only