________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
20982%
8
भी गौतम पृच्छा । ॥५७॥
एकविंशतितमपनौः ॥
9
अथैकविंशतितमप्रश्नोत्तरमाहप्रश्नः-(श्रीगौतमस्वामी पृच्छति-“हे दयालो! हे जनवत्सल ! हे भगवन् ! कथं विद्या सफला भवति ?" २१) उत्तरः-(तदा कृपालुभगवान् वक्ति-हे गौतम !)
गाथा-बहु मन्नइ आयरियं, विणयसमग्गो गुणेहिं संजुत्तो। इह जा गहिया विज्जा, सा सफला होइ लोगंमि ॥३७॥
व्याख्या-यः पुमान् गुरुं बहु मन्यते, पुनर्विनयवान् भवति, गुणेश्च संयुक्तो भवति, तद् गृहीता विद्या लोके सफला भवति. यथा श्रेणिकेन विनयेन गृहीताऽऽकर्षिणी विद्या सफला जाता ॥३७॥
श्रेणिकवृत्तान्तो यथा
राजगहनगरे श्रेणिको राजा राज्यं करोति । तस्य पदराज्ञी चेल्लणानाम्रा वर्तते । पुनस्तस्यैकोऽभयकुमारनामा मन्त्री विद्यते । अर्थकदा चेल्लणाया गर्भप्रभावादीदृशो मनसि दोहद उत्पभो यथा वनसहिते एकस्तम्भे धवलगृहेऽहं वसामीति तस्य दोहदस्याऽपूर्णीभावात्सा क्रमेणातीव दुर्बला बभूव ।
एकदा राजा सा पृष्टा-"त्वं कथं दुर्बला जाता ?" तदा तया स्वकीयः सकलोऽपि दोहदवृत्तान्तः कथितः. पश्चादाजा | स वृत्तान्तोऽभयकुमाराय निवेदयित्वोक्तम्-"स्वमस्या दोहदं केनाप्युपायेन युद्धया पूरय ।" तदाऽभयकुमारेणाराधितो देवः
整強器密密带紫赛张继強強強強聯染器张密影器寨张先染
*23
2*2888
॥५७॥
For Private And Personal Use Only