SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * * ** श्री गौतमपृच्छा ।। ॥५६॥ विंशतितमप्रश्न:॥ * * * मन्यते तस्य विद्या च कला च निष्फलैव भवति, यथा त्रिदण्डिकस्य कला निष्फला जाता ॥३६॥ तस्य सम्बन्धमाह राजपूरे नगरे एको विद्यावान् नापितो वसति । विद्याबलेन च स नापित आकाशे क्षुरमादीनि शस्त्राणि धारयति । ततो लोकमध्ये सोऽतीव प्रसिद्धो जातः। तस्मिन्नेव नगरे एकत्रिदण्डिको ब्राह्मगोऽस्य नापितस्य विद्यां ग्रहीतुं तस्य भक्ति करोति । एकदा तेन तस्य विद्यार्पगाथै प्रार्थना कृता। तदा सन्तुष्टेन तेन तस्मै विधिपूर्वकं सा विद्या दत्ता। तेनापि च सा साधिता । तद्विद्याबलेन च स आकाशे निजत्रिदण्डिकां स्थापयति । लोका अपि सर्वे तस्य तत्कौतुकं | पश्यन्ति, प्रशंसां च कुर्वन्ति यथाऽयं महाविद्यावान् वर्तत इनि। ____ अन्यदा लोकैस्तस्मै पृष्टम् -" भो त्रिदण्डिक ! त्वया कस्य गुरोः पार्थादियं विद्या शिक्षिता ?" तेनोक्तम्| " मयेयं विद्या हिमवन्तवासिनो विद्याधरस्य पाश्चन्छिक्षिता, अतो मम विद्यागुरुर्विद्याधरोऽस्ति इत्युक्त्वा तेन तस्य नापितस्य नाम न गृहात लजावशात् । तत्क्षणमेव गुर्वपलपनात्तस्य त्रिदण्ड आकाशादधः पतितः। तदृष्ट्रा लोकस्थिं विहितं, कथितं चायं गुरुलोपी, एवं तस्यावहीलना महती जाता । विद्यापि तस्य निष्फला भूता। यतो गुरुलोपी महापापीति वचनात गुरोरपलापकर्तुरागामिनि भवेऽपि विद्या निष्फला भवति, विज्ञानं च नागच्छति । अत एव गुरोविनयो भव्यप्रकारेण कार्यः । ॥ इति विदण्डिनो विंशतितमा कथा समाप्ता । (२०) १ विनयथी विद्या आवे छे. * ********* ॥५६॥ *** For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy