SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा || ॥५९॥ **** ********************* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च निजभगिनीं कथयित्वा तस्याः सन्मुखं समागत्य मिलितः । ततस्तस्यै वस्त्राभरणादीनि दत्वा स तां पञ्चात्प्रेषितवान् । पश्चाद्वलमाना राक्षसैरपि किचिद्दत्वा सा मुक्ता । पश्चात्तस्याः सत्यवचनैस्तुष्टैश्चरैरपि सा किंचिद्दत्वा मुक्ता । एवं क्रमेणैपा गृहं प्राप्ता । सत्यवचसा भर्त्रापि सा सन्मानिता । तत् श्रुत्वा सभाजनानां मध्यात्तेन चौररूपेण चाण्डालेनोक्तम् - " अहो कीदृशास्ते चौरा मूर्खाः १ यैरीदृशी नूतनपरि गीता सयौवना वस्त्राभरणालंकृता कन्या मुक्ता ।" तत् श्रुत्वाऽभयकुमारेण चिन्तितम् - " नूनमयं चाण्डाल एव चौरः, अनेनैवाम्रफलं गृहीतं संभवति ।" ततस्तं चाण्डालं राज्ञः पार्श्वे समानीयाऽभयकुमारेणोक्तम् - " हे स्वामिन्नयमे त्राम्रफलस्य चौरः संभवति । तदा राजा तं चाण्डालं पृच्छति - " भो चाण्डाल ! त्वया केन प्रकरेणानफलं गृहीतम् ?" तदा तेनापि सत्यमुक्तम्-" हे स्वामिन् ! मया आकर्षिणीविद्ययाऽम्रफलं गृहीतमस्ति स्वभार्याया दोहदपूरणार्थम् । तत श्रुत्वा श्रेणिकेनोक्तम् — “ तामाकर्षिणीं विद्यां मम शिक्षय " । तदा स मातङ्गः सिहासनोपरिस्थस्य राज्ञः पुरः स्थित्वा वारंवारं मन्त्रविद्यां ददाति परं राज्ञो मुखे सा नायाति । तद् दृष्ट्वाऽभयकुमारमन्त्रीश्वरेणोक्तम्- " हे राजन् ! विद्या यदि विनयेन गृह्यते तदैव साऽऽयाति नान्यथा । उक्तं च- 'विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा । अथवा विद्यया विद्या, चतुर्थी नैव कारणम् ||१||' अत एनं सिंहासने समुपाविश्य गुरुं च कृत्वा यूयं च स्वयमग्रे स्थित्वा मुखेनैवं वदथ यथा - 'भो गुगे। मां विद्यां पाठयत । इत्येवं करणतो विद्या समायास्यति' । तदा राज्ञाऽपि तथैवं कृतम् । तत्क्षणमेव तस्य विद्या समायाता । ततोऽभयकुमारवचनतो राजा तं गौरद्दण्डान्निर्मुक्तं चकार । एवं विनयत एव विद्या For Private And Personal Use Only एकविंशतितम प्रश्नः ॥ ॥५९॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy