________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
822
भी गौतमपृच्छा । ॥६ ॥
द्वाविंशतितममत्रयोविश
तितमप्रश्नो॥
聯姿強強強強強帶路器张密密整张带带蒸张帶路路參密密的
सफला जाता । अतो विनयवद्भिविनयेनैव विद्या प्राया ॥ (२१)
॥इति विनयोपरि श्रेणिकनृपकथा समाप्ता॥ अथ द्वाविंशतितमत्रयोविंशतितमप्रश्नोत्तरमाहप्रश्नः-(श्रीगौतमस्वामी पृच्छति-“हे कृपासागर ! हे परमेश्वर ! हे भगवन् ! केन कर्मणा अर्थों विनश्यति ?" २२) उत्तरः-(तदा कृपानिधिर्महावीरप्रभुः कथयति-हे गौतम!)
गाथा-जो दाणं दाऊणं, चिंतइ हा कीस मए इयं दिन्नं । होऊण वि धणरिद्धि, अचिराविहु नासए तस्स ॥३८॥
व्याख्या-यः पुरुषो दानं दत्वा हृदये एवं चिन्तयति, यथा-' हा इति खेदे मयतदानं कथं दत्तं?' इति यः पश्चात्तापं करोति, तस्य गृहाल्लक्ष्मीः स्तोककालेन याति गच्छति, धनदत्तमुतसुधनवत् ॥३८॥
प्रश्न-(श्रीगौतमस्वामी पृच्छति-" हे दयानिधे! हे वीतराग! हे कारुण्यपुण्यवसते! केन कर्मणा अर्थी मीलति?" २३)
उत्तरः-(तदा श्रीवीरपरमात्मा कथयति-हे गौतम !)
गाथा-थोवे धणेवि हु सत्ती, देह दाणं पवइ परेवि । जो पुरिसो तस्स धणं, गोयम ! संमिलइ परे जम्मे ॥३९॥
2880***888***
॥६
॥
For Private And Personal Use Only